१.१५८.१वैशंपायन उवाच
१.१५८.२ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः
१.१५८.३ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम्
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः
१.१५८.४उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः
प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः
१.१५८.५तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः
ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः
१.१५८.६शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली
१.१५८.७स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान्
विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत्
१.१५८.८संध्या संरज्यते घोरा पूर्वरात्रागमेषु या
अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते
१.१५८.९विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्
शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम्
१.१५८.१०लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्
१.१५८.११ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि
१.१५८.१२आरात्तिष्ठत मा मह्यं समीपमुपसर्पत
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्
१.१५८.१३अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा
१.१५८.१४अङ्गारपर्णमिति च ख्यातं वनमिदं मम
अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम्
१.१५८.१५न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः
इदं समुपसर्पन्ति तत्किं समुपसर्पथ
१.१५८.१६अर्जुन उवाच
१.१५८.१७समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते
रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः
१.१५८.१८वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः
अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः
१.१५८.१९पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता
गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते
१.१५८.२०इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्
१.१५८.२१तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः
गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत्
१.१५८.२२असंबाधा देवनदी स्वर्गसंपादनी शुभा
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः
१.१५८.२३अनिवार्यमसंबाधं तव वाचा कथं वयम्
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्
१.१५८.२४वैशंपायन उवाच
१.१५८.२५अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम्
मुमोच सायकान्दीप्तानहीनाशीविषानिव
१.१५८.२६उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम्
व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः
१.१५८.२७अर्जुन उवाच
१.१५८.२८बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते
अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते
१.१५८.२९मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया
१.१५८.३०पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः
भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः
१.१५८.३१भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम
स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः
१.१५८.३२वैशंपायन उवाच
१.१५८.३३इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्
१.१५८.३४विरथं विप्लुतं तं तु स गन्धर्वं महाबलम्
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्
१.१५८.३५शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्
१.१५८.३६युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती
१.१५८.३७गन्धर्व्युवाच
१.१५८.३८त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे
गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो
१.१५८.३९युधिष्ठिर उवाच
१.१५८.४०युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्
को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन
१.१५८.४१अर्जुन उवाच
१.१५८.४२अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः
१.१५८.४३गन्धर्व उवाच
१.१५८.४४जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्
न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि
१.१५८.४५साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्
गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम्
१.१५८.४६अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्
१.१५८.४७संभृता चैव विद्येयं तपसेह पुरा मया
निवेदयिष्ये तामद्य प्राणदाया महात्मने
१.१५८.४८संस्तम्भितं हि तरसा जितं शरणमागतम्
योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति
१.१५८.४९चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः
ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ
१.१५८.५०सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे
१.१५८.५१यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन
तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति
१.१५८.५२समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम्
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते
१.१५८.५३विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः
अविशिष्टाश्च देवानामनुभावप्रवर्तिताः
१.१५८.५४गन्धर्वजानामश्वानामहं पुरुषसत्तम
भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम्
१.१५८.५५देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः
क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः
१.१५८.५६पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि
१.१५८.५७ततो भागीकृतो देवैर्वज्रभाग उपास्यते
लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता
१.१५८.५८वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः
१.१५८.५९वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः
रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः
१.१५८.६०कामवर्णाः कामजवाः कामतः समुपस्थिताः
इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः
१.१५८.६१अर्जुन उवाच
१.१५८.६२यदि प्रीतेन वा दत्तं संशये जीवितस्य वा
विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये
१.१५८.६३गन्धर्व उवाच
१.१५८.६४संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते
१.१५८.६५त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्
तथैव सख्यं बीभत्सो चिराय भरतर्षभ
१.१५८.६६अर्जुन उवाच
१.१५८.६७त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत्