१.१५९.१अर्जुन उवाच
१.१५९.२कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः
यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम
१.१५९.३गन्धर्व उवाच
१.१५९.४अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः
यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन
१.१५९.५यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः
विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते
१.१५९.६नारदप्रभृतीनां च देवर्षीणां मया श्रुतम्
गुणान्कथयतां वीर पूर्वेषां तव धीमताम्
१.१५९.७स्वयं चापि मया दृष्टश्चरता सागराम्बराम्
इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते
१.१५९.८वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्
१.१५९.९धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा
पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान्
पितॄनेतानहं पार्थ देवमानुषसत्तमान्
१.१५९.१०दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः
१.१५९.११उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम्
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्
१.१५९.१२स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति
धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः
१.१५९.१३नक्तं च बलमस्माकं भूय एवाभिवर्धते
यतस्ततो मां कौन्तेय सदारं मन्युराविशत्
१.१५९.१४सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन
येन तेनेह विधिना कीर्त्यमानं निबोध मे
१.१५९.१५ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि
यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया
१.१५९.१६यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप
नक्तं च युधि युध्येत न स जीवेत्कथंचन
१.१५९.१७यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे
जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः
१.१५९.१८तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम्
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः
१.१५९.१९वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः
१.१५९.२०जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम्
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः
१.१५९.२१लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम्
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्
१.१५९.२२पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः
प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम्
१.१५९.२३न हि केवलशौर्येण तापत्याभिजनेन च
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित्
१.१५९.२४तस्मादेवं विजानीहि कुरूणां वंशवर्धन
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्