१. आदिपर्व
१.१६०.१अर्जुन उवाच

१.१६०.२तापत्य इति यद्वाक्यमुक्तवानसि मामिह
तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम्

१.१६०.३तपती नाम का चैषा तापत्या यत्कृते वयम्
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्

१.१६०.४वैशंपायन उवाच

१.१६०.५एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम्
विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम्

१.१६०.६गन्धर्व उवाच

१.१६०.७हन्त ते कथयिष्यामि कथामेतां मनोरमाम्
यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर

१.१६०.८उक्तवानस्मि येन त्वां तापत्य इति यद्वचः
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम

१.१६०.९य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा
एतस्य तपती नाम बभूवासदृशी सुता

१.१६०.१०विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो
विश्रुता त्रिषु लोकेषु तपती तपसा युता

१.१६०.११न देवी नासुरी चैव न यक्षी न च राक्षसी
नाप्सरा न च गन्धर्वी तथारूपेण काचन

१.१६०.१२सुविभक्तानवद्याङ्गी स्वसितायतलोचना
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी

१.१६०.१३न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत
भर्तारं सविता मेने रूपशीलकुलश्रुतैः

१.१६०.१४संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्

१.१६०.१५अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली
सूर्यमाराधयामास नृपः संवरणः सदा

१.१६०.१६अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः
नियमैरुपवासैश्च तपोभिर्विविधैरपि

१.१६०.१७शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्

१.१६०.१८ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्

१.१६०.१९दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्
नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै

१.१६०.२०यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा
तथा भुवि महीपालो दीप्त्या संवरणोऽभवत्

१.१६०.२१यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः

१.१६०.२२स सोममति कान्तत्वादादित्यमति तेजसा
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि

१.१६०.२३एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्

१.१६०.२४स कदाचिदथो राजा श्रीमानुरुयशा भुवि
चचार मृगयां पार्थ पर्वतोपवने किल

१.१६०.२५चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः

१.१६०.२६स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः
ददर्शासदृशीं लोके कन्यामायतलोचनाम्

१.१६०.२७स एक एकामासाद्य कन्यां तामरिमर्दनः
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः

१.१६०.२८स हि तां तर्कयामास रूपतो नृपतिः श्रियम्
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्

१.१६०.२९गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना
स सवृक्षक्षुपलतो हिरण्मय इवाभवत्

१.१६०.३०अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्

१.१६०.३१जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः
रूपं न सदृशं तस्यास्तर्कयामास किंचन

१.१६०.३२तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा
न चचाल ततो देशाद्बुबुधे न च किंचन

१.१६०.३३अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्

१.१६०.३४एवं स तर्कयामास रूपद्रविणसंपदा
कन्यामसदृशीं लोके नृपः संवरणस्तदा

१.१६०.३५तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः
जगाम मनसा चिन्तां काममार्गणपीडितः

१.१६०.३६दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना
अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम्

१.१६०.३७कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते

१.१६०.३८त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता
विभूषणमिवैतेषां भूषणानामभीप्सितम्

१.१६०.३९न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्
न च भोगवतीं मन्ये न गन्धर्वीं न मानुषीम्

१.१६०.४०या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि

१.१६०.४१एवं तां स महीपालो बभाषे न तु सा तदा
कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन

१.१६०.४२ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा
सौदामिनीव साभ्रेषु तत्रैवान्तरधीयत

१.१६०.४३तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा

१.१६०.४४अपश्यमानः स तु तां बहु तत्र विलप्य च
निश्चेष्टः कौरवश्रेष्ठो मुहूर्तं स व्यतिष्ठत