१.१७.१सूत उवाच
१.१७.२अथावरणमुख्यानि नानाप्रहरणानि च
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः
१.१७.३ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः
१.१७.४ततो देवगणाः सर्वे पपुस्तदमृतं तदा
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति
१.१७.५ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम्
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा
१.१७.६तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया
१.१७.७ततो भगवता तस्य शिरश्छिन्नमलंकृतम्
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा
१.१७.८तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्
चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम्
१.१७.९ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ
१.१७.१०विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्
१.१७.११ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः
सुराणामसुराणां च सर्वघोरतरो महान्
१.१७.१२प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च
१.१७.१३ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु
असिशक्तिगदारुग्णा निपेतुर्धरणीतले
१.१७.१४छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे
तप्तकाञ्चनजालानि निपेतुरनिशं तदा
१.१७.१५रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः
अद्रीणामिव कूटानि धातुरक्तानि शेरते
१.१७.१६हाहाकारः समभवत्तत्र तत्र सहस्रशः
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति
१.१७.१७परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्
१.१७.१८छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः
१.१७.१९एवं सुतुमुले युद्धे वर्तमाने भयावहे
नरनारायणौ देवौ समाजग्मतुराहवम्
१.१७.२०तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि
चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम्
१.१७.२१ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम्
विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम्
१.१७.२२तदागतं ज्वलितहुताशनप्रभं; भयंकरं करिकरबाहुरच्युतः
मुमोच वै चपलमुदग्रवेगव;न्महाप्रभं परनगरावदारणम्
१.१७.२३तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा
विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे
१.१७.२४दहत्क्वचिज्ज्वलन इवावलेलिह;त्प्रसह्य तानसुरगणान्न्यकृन्तत
प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत्
१.१७.२५अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा
महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह
१.१७.२६अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः
महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः
१.१७.२७ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः
परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसंप्रवर्तिते
१.१७.२८नरस्ततो वरकनकाग्रभूषणै;र्महेषुभिर्गगनपथं समावृणोत्
विदारयन्गिरिशिखराणि पत्रिभि;र्महाभयेऽसुरगणविग्रहे तदा
१.१७.२९ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः
वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च
१.१७.३०ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः
विनाद्य खं दिवमपि चैव सर्वश;स्ततो गताः सलिलधरा यथागतम्
१.१७.३१ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम्
ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह