१.१७०.१ब्राह्मण्युवाच
१.१७०.२नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः
१.१७०.३तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना
स्मरता निहतान्बन्धूनादत्तानि न संशयः
१.१७०.४गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः
तदायमूरुणा गर्भो मया वर्षशतं धृतः
१.१७०.५षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया
१.१७०.६सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः
१.१७०.७तमिमं तात याचध्वमौर्वं मम सुतोत्तमम्
अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति
१.१७०.८गन्धर्व उवाच
१.१७०.९एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः
१.१७०.१०अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत
१.१७०.११चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम्
१.१७०.१२स चक्रे तात लोकानां विनाशाय महामनाः
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः
१.१७०.१३इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः
सर्वलोकविनाशाय तपसा महतैधितः
१.१७०.१४तापयामास लोकान्स सदेवासुरमानुषान्
तपसोग्रेण महता नन्दयिष्यन्पितामहान्
१.१७०.१५ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम्
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः
१.१७०.१६और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः
१.१७०.१७नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः
वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्
१.१७०.१८आयुषा हि प्रकृष्टेन यदा नः खेद आविशत्
तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्
१.१७०.१९निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ
१.१७०.२०यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः
तदास्माभिरयं दृष्ट उपायस्तात संमतः
१.१७०.२१आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः
१.१७०.२२न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि
नियच्छेदं मनः पापात्सर्वलोकपराभवात्
१.१७०.२३न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक
दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि