१. आदिपर्व
१.१७६.१वैशंपायन उवाच

१.१७६.२एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय
राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान्

१.१७६.३ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्
ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा

१.१७६.४तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्

१.१७६.५पश्यन्तो रमणीयानि वनानि च सरांसि च
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः

१.१७६.६स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः

१.१७६.७ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः
कुम्भकारस्य शालायां निवेशं चक्रिरे तदा

१.१७६.८तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः
तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित्

१.१७६.९यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने
कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः

१.१७६.१०सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय
दृढं धनुरनायम्यं कारयामास भारत

१.१७६.११यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्
तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम्

१.१७६.१२द्रुपद उवाच

१.१७६.१३इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः
अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति

१.१७६.१४वैशंपायन उवाच

१.१७६.१५इति स द्रुपदो राजा सर्वतः समघोषयत्
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत

१.१७६.१६ऋषयश्च महात्मानः स्वयंवरदिदृक्षया
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप

१.१७६.१७ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्
तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना

१.१७६.१८ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः
शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः

१.१७६.१९प्रागुत्तरेण नगराद्भूमिभागे समे शुभे
समाजवाटः शुशुभे भवनैः सर्वतो वृतः

१.१७६.२०प्राकारपरिखोपेतो द्वारतोरणमण्डितः
वितानेन विचित्रेण सर्वतः समवस्तृतः

१.१७६.२१तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः
चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः

१.१७६.२२कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः
सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः

१.१७६.२३सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः
सुखारोहणसोपानैर्महासनपरिच्छदैः

१.१७६.२४अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः
हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः

१.१७६.२५असंबाधशतद्वारैः शयनासनशोभितैः
बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव

१.१७६.२६तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः
स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः

१.१७६.२७तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान्
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्

१.१७६.२८महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः

१.१७६.२९मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः
कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन्

१.१७६.३०ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्
ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्

१.१७६.३१ततः समाजो ववृधे स राजन्दिवसान्बहून्
रत्नप्रदानबहुलः शोभितो नटनर्तकैः

१.१७६.३२वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता

१.१७६.३३वीरकांस्यमुपादाय काञ्चनं समलंकृतम्
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ

१.१७६.३४पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः
परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा

१.१७६.३५स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च
वारयामास सर्वाणि वादित्राणि समन्ततः

१.१७६.३६निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते
रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्

१.१७६.३७इदं धनुर्लक्ष्यमिमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव
यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर्दशार्धैः

१.१७६.३८एतत्कर्ता कर्म सुदुष्करं यः; कुलेन रूपेण बलेन युक्तः
तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा ब्रवीमि

१.१७६.३९तानेवमुक्त्वा द्रुपदस्य पुत्रः; पश्चादिदं द्रौपदीमभ्युवाच
नाम्ना च गोत्रेण च कर्मणा च; संकीर्तयंस्तान्नृपतीन्समेतान्