१.१७७.१धृष्टद्युम्न उवाच
१.१७७.२दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः
विविंशतिर्विकर्णश्च सहो दुःशासनः समः
१.१७७.३युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा
उग्रायुधो बलाकी च कनकायुर्विरोचनः
१.१७७.४सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः
नन्दको बाहुशाली च कुण्डजो विकटस्तथा
१.१७७.५एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः
शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः
१.१७७.६शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः
एते गान्धारराजस्य सुताः सर्वे समागताः
१.१७७.७अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ
समवेतौ महात्मानौ त्वदर्थे समलंकृतौ
१.१७७.८बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान्
सहदेवो जयत्सेनो मेघसंधिश्च मागधः
१.१७७.९विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च
वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः
१.१७७.१०अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा
सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा
१.१७७.११सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः
१.१७७.१२समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्
जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च
१.१७७.१३पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा
१.१७७.१४मद्रराजस्तथा शल्यः सहपुत्रो महारथः
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
१.१७७.१५कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः
१.१७७.१६सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः
बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा
१.१७७.१७संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्
साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा
१.१७७.१८अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च
१.१७७.१९विडूरथश्च कङ्कश्च समीकः सारमेजयः
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः
१.१७७.२०भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः
१.१७७.२१उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ
वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा
१.१७७.२२एते चान्ये च बहवो नानाजनपदेश्वराः
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि
१.१७७.२३एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम्
विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम्