१.१७८.१वैशंपायन उवाच
१.१७८.२तेऽलंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहंकृतेन
१.१७८.३रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन
समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः
१.१७८.४परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः
कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः
१.१७८.५ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम्
चकाशिरे पर्वतराजकन्या;मुमां यथा देवगणाः समेताः
१.१७८.६कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः
रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र
१.१७८.७अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च
साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च
१.१७८.८दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च
विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः
१.१७८.९हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः
प्रेक्षां स्म चक्रुर्यदुपुंगवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः
१.१७८.१०दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा;न्पञ्चाभिपद्मानिव वारणेन्द्रान्
भस्मावृताङ्गानिव हव्यवाहा;न्पार्थान्प्रदध्यौ स यदुप्रवीरः
१.१७८.११शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ
शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श
१.१७८.१२अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः
व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः
१.१७८.१३तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः
१.१७८.१४देवर्षिगन्धर्वसमाकुलं त;त्सुपर्णनागासुरसिद्धजुष्टम्
दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम्
१.१७८.१५महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्संकुलमन्तरिक्षम्
विमानसंबाधमभूत्समन्ता;त्सवेणुवीणापणवानुनादम्
१.१७८.१६ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः
तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम्
१.१७८.१७ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः
विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः
१.१७८.१८हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च
कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत्
१.१७८.१९तस्मिंस्तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु
कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः