१.१७९.१वैशंपायन उवाच
१.१७९.२यदा निवृत्ता राजानो धनुषः सज्यकर्मणि
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः
१.१७९.३उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्
१.१७९.४केचिदासन्विमनसः केचिदासन्मुदा युताः
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः
१.१७९.५यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः
१.१७९.६तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा
बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः
१.१७९.७अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते
१.१७९.८यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात्
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्
१.१७९.९नावहास्या भविष्यामो न च लाघवमास्थिताः
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्
१.१७९.१०केचिदाहुर्युवा श्रीमान्नागराजकरोपमः
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव
१.१७९.११संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्
१.१७९.१२न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्
ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु
१.१७९.१३अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः
दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा
१.१७९.१४ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन्
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम्
१.१७९.१५एवं तेषां विलपतां विप्राणां विविधा गिरः
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः
१.१७९.१६स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्
प्रणम्य शिरसा हृष्टो जगृहे च परंतपः
१.१७९.१७सज्यं च चक्रे निमिषान्तरेण; शरांश्च जग्राह दशार्धसंख्यान्
विव्याध लक्ष्यं निपपात तच्च; छिद्रेण भूमौ सहसातिविद्धम्
१.१७९.१८ततोऽन्तरिक्षे च बभूव नादः; समाजमध्ये च महान्निनादः
पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि द्विषतां निहन्तुः
१.१७९.१९चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः
१.१७९.२०शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन्
सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः
१.१७९.२१तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः
सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः
१.१७९.२२तस्मिंस्तु शब्दे महति प्रवृत्ते; युधिष्ठिरो धर्मभृतां वरिष्ठः
आवासमेवोपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्
१.१७९.२३विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा; पार्थं च शक्रप्रतिमं निरीक्ष्य
आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतमुत्स्मयन्ती
१.१७९.२४स तामुपादाय विजित्य रङ्गे; द्विजातिभिस्तैरभिपूज्यमानः
रङ्गान्निरक्रामदचिन्त्यकर्मा; पत्न्या तया चाप्यनुगम्यमानः