१.१८०.१वैशंपायन उवाच
१.१८०.२तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्
१.१८०.३अस्मानयमतिक्रम्य तृणीकृत्य च संगतान्
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्
१.१८०.४निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते
न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः
१.१८०.५हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्
गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति
१.१८०.६अस्मिन्राजसमावाये देवानामिव संनये
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्
१.१८०.७न च विप्रेष्वधीकारो विद्यते वरणं प्रति
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः
१.१८०.८अथ वा यदि कन्येयं नेह कंचिद्बुभूषति
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः
१.१८०.९ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम्
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन
१.१८०.१०ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्
१.१८०.११अवमानभयादेतत्स्वधर्मस्य च रक्षणात्
स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः
१.१८०.१२इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः
द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन्
१.१८०.१३तान्गृहीतशरावापान्क्रुद्धानापततो नृपान्
द्रुपदो वीक्ष्य संत्रासाद्ब्राह्मणाञ्शरणं गतः
१.१८०.१४वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्
पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ
१.१८०.१५ततः समुत्पेतुरुदायुधास्ते; महीक्षितो बद्धतलाङ्गुलित्राः
जिघांसमानाः कुरुराजपुत्रा;वमर्षयन्तोऽर्जुनभीमसेनौ
१.१८०.१६ततस्तु भीमोऽद्भुतवीर्यकर्मा; महाबलो वज्रसमानवीर्यः
उत्पाट्य दोर्भ्यां द्रुममेकवीरो; निष्पत्रयामास यथा गजेन्द्रः
१.१८०.१७तं वृक्षमादाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम्
तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथुदीर्घबाहुः
१.१८०.१८तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धे;र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा
दामोदरो भ्रातरमुग्रवीर्यं; हलायुधं वाक्यमिदं बभाषे
१.१८०.१९य एष मत्तर्षभतुल्यगामी; महद्धनुः कर्षति तालमात्रम्
एषोऽर्जुनो नात्र विचार्यमस्ति; यद्यस्मि संकर्षण वासुदेवः
१.१८०.२०य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः
वृकोदरो नान्य इहैतदद्य; कर्तुं समर्थो भुवि मर्त्यधर्मा
१.१८०.२१योऽसौ पुरस्तात्कमलायताक्ष;स्तनुर्महासिंहगतिर्विनीतः
गौरः प्रलम्बोज्ज्वलचारुघोणो; विनिःसृतः सोऽच्युत धर्मराजः
१.१८०.२२यौ तौ कुमाराविव कार्त्तिकेयौ; द्वावश्विनेयाविति मे प्रतर्कः
मुक्ता हि तस्माज्जतुवेश्मदाहा;न्मया श्रुताः पाण्डुसुताः पृथा च
१.१८०.२३तमब्रवीन्निर्मलतोयदाभो; हलायुधोऽनन्तरजं प्रतीतः
प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः