१. आदिपर्व
१.१८१.१वैशंपायन उवाच

१.१८१.२अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः
ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान्

१.१८१.३तानेवं वदतो विप्रानर्जुनः प्रहसन्निव
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः

१.१८१.४अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव

१.१८१.५इति तद्धनुरादाय शुल्कावाप्तं महारथः
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः

१.१८१.६ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान्
संपेततुरभीतौ तौ गजौ प्रतिगजानिव

१.१८१.७ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः

१.१८१.८ततो वैकर्तनः कर्णो जगामार्जुनमोजसा
युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा

१.१८१.९भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली
दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे

१.१८१.१०ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः
कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः

१.१८१.११तेषां शराणां वेगेन शितानां तिग्मतेजसाम्
विमुह्यमानो राधेयो यत्नात्तमनुधावति

१.१८१.१२तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ
अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ

१.१८१.१३कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे
इति शूरार्थवचनैराभाषेतां परस्परम्

१.१८१.१४ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्

१.१८१.१५अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा
प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन्

१.१८१.१६कर्ण उवाच

१.१८१.१७तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे
अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च

१.१८१.१८किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः

१.१८१.१९आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः
विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे

१.१८१.२०न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः

१.१८१.२१वैशंपायन उवाच

१.१८१.२२तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः

१.१८१.२३ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात्
स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव

१.१८१.२४एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत
ब्राह्मं तेजस्तदाजय्यं मन्यमानो महारथः

१.१८१.२५युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ
बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च

१.१८१.२६अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्
मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम्

१.१८१.२७ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे
न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः

१.१८१.२८तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः
यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली

१.१८१.२९पातिते भीमसेनेन शल्ये कर्णे च शङ्किते
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्

१.१८१.३०ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः
विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च

१.१८१.३१को हि राधासुतं कर्णं शक्तो योधयितुं रणे
अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः

१.१८१.३२कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात्
को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे

१.१८१.३३तथैव मद्रराजानं शल्यं बलवतां वरम्
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्

१.१८१.३४क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात्
अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम्

१.१८१.३५तत्कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः
निवारयामास महीपतींस्ता;न्धर्मेण लब्धेत्यनुनीय सर्वान्

१.१८१.३६त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः

१.१८१.३७वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः

१.१८१.३८ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः
कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ

१.१८१.३९विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः

१.१८१.४०तेषां माता बहुविधं विनाशं पर्यचिन्तयत्
अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति

१.१८१.४१धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुंगवाः
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः

१.१८१.४२विपरीतं मतं जातं व्यासस्यापि महात्मनः
इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा

१.१८१.४३महत्यथापराह्णे तु घनैः सूर्य इवावृतः
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः