१. आदिपर्व
१.१८२.१वैशंपायन उवाच

१.१८२.२गत्वा तु तां भार्गवकर्मशालां; पार्थौ पृथां प्राप्य महानुभावौ
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्यथावेदयतां नराग्र्यौ

१.१८२.३कुटीगता सा त्वनवेक्ष्य पुत्रा;नुवाच भुङ्क्तेति समेत्य सर्वे
पश्चात्तु कुन्ती प्रसमीक्ष्य कन्यां; कष्टं मया भाषितमित्युवाच

१.१८२.४साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रतीताम्
पाणौ गृहीत्वोपजगाम कुन्ती; युधिष्ठिरं वाक्यमुवाच चेदम्

१.१८२.५इयं हि कन्या द्रुपदस्य राज्ञ;स्तवानुजाभ्यां मयि संनिसृष्टा
यथोचितं पुत्र मयापि चोक्तं; समेत्य भुङ्क्तेति नृप प्रमादात्

१.१८२.६कथं मया नानृतमुक्तमद्य; भवेत्कुरूणामृषभ ब्रवीहि
पाञ्चालराजस्य सुतामधर्मो; न चोपवर्तेत नभूतपूर्वः

१.१८२.७मुहूर्तमात्रं त्वनुचिन्त्य राजा; युधिष्ठिरो मातरमुत्तमौजाः
कुन्तीं समाश्वास्य कुरुप्रवीरो; धनंजयं वाक्यमिदं बभाषे

१.१८२.८त्वया जिता पाण्डव याज्ञसेनी; त्वया च तोषिष्यति राजपुत्री
प्रज्वाल्यतां हूयतां चापि वह्नि;र्गृहाण पाणिं विधिवत्त्वमस्याः

१.१८२.९अर्जुन उवाच

१.१८२.१०मा मां नरेन्द्र त्वमधर्मभाजं; कृथा न धर्मो ह्ययमीप्सितोऽन्यैः
भवान्निवेश्यः प्रथमं ततोऽयं; भीमो महाबाहुरचिन्त्यकर्मा

१.१८२.११अहं ततो नकुलोऽनन्तरं मे; माद्रीसुतः सहदेवो जघन्यः
वृकोदरोऽहं च यमौ च राज;न्नियं च कन्या भवतः स्म सर्वे

१.१८२.१२एवंगते यत्करणीयमत्र; धर्म्यं यशस्यं कुरु तत्प्रचिन्त्य
पाञ्चालराजस्य च यत्प्रियं स्या;त्तद्ब्रूहि सर्वे स्म वशे स्थितास्ते

१.१८२.१३वैशंपायन उवाच

१.१८२.१४ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम्
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्

१.१८२.१५तेषां हि द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः

१.१८२.१६काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं स्वयम्
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्

१.१८२.१७तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः
द्वैपायनवचः कृत्स्नं संस्मरन्वै नरर्षभ

१.१८२.१८अब्रवीत्स हि तान्भ्रातॄन्मिथोभेदभयान्नृपः
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा