१. आदिपर्व
१.१८३.१वैशंपायन उवाच

१.१८३.२भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे; ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्
तमेवार्थं ध्यायमाना मनोभि;रासां चक्रुरथ तत्रामितौजाः

१.१८३.३वृष्णिप्रवीरस्तु कुरुप्रवीरा;नाशङ्कमानः सहरौहिणेयः
जगाम तां भार्गवकर्मशालां; यत्रासते ते पुरुषप्रवीराः

१.१८३.४तत्रोपविष्टं पृथुदीर्घबाहुं; ददर्श कृष्णः सहरौहिणेयः
अजातशत्रुं परिवार्य तांश्च; उपोपविष्टाञ्ज्वलनप्रकाशान्

१.१८३.५ततोऽब्रवीद्वासुदेवोऽभिगम्य; कुन्तीसुतं धर्मभृतां वरिष्ठम्
कृष्णोऽहमस्मीति निपीड्य पादौ; युधिष्ठिरस्याजमीढस्य राज्ञः

१.१८३.६तथैव तस्याप्यनु रौहिणेय;स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्
पितृष्वसुश्चापि यदुप्रवीरा;वगृह्णतां भारतमुख्य पादौ

१.१८३.७अजातशत्रुश्च कुरुप्रवीरः; पप्रच्छ कृष्णं कुशलं निवेद्य
कथं वयं वासुदेव त्वयेह; गूढा वसन्तो विदिताः स्म सर्वे

१.१८३.८तमब्रवीद्वासुदेवः प्रहस्य; गूढोऽप्यग्निर्ज्ञायत एव राजन्
तं विक्रमं पाण्डवेयानतीत्य; कोऽन्यः कर्ता विद्यते मानुषेषु

१.१८३.९दिष्ट्या तस्मात्पावकात्संप्रमुक्ता; यूयं सर्वे पाण्डवाः शत्रुसाहाः
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः; सहामात्यो न सकामोऽभविष्यत्

१.१८३.१०भद्रं वोऽस्तु निहितं यद्गुहायां; विवर्धध्वं ज्वलन इवेध्यमानः
मा वो विद्युः पार्थिवाः केचनेह; यास्यावहे शिबिरायैव तावत्
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः; प्रायाच्छीघ्रं बलदेवेन सार्धम्