१. आदिपर्व
१.१८४.१वैशंपायन उवाच

१.१८४.२धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम्

१.१८४.३सोऽज्ञायमानः पुरुषानवधाय समन्ततः
स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने

१.१८४.४सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ
भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः

१.१८४.५ततस्तु कुन्ती द्रुपदात्मजां ता;मुवाच काले वचनं वदान्या
अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम्

१.१८४.६ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः
ततश्च शेषं प्रविभज्य शीघ्र;मर्धं चतुर्णां मम चात्मनश्च

१.१८४.७अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः
श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव

१.१८४.८सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना
यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम्

१.१८४.९कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी
यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम्

१.१८४.१०अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम्
कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः

१.१८४.११अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु
न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस्तान्

१.१८४.१२ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः
अस्त्राणि दिव्यानि रथांश्च नागा;न्खड्गान्गदाश्चापि परश्वधांश्च

१.१८४.१३तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम्
शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः

१.१८४.१४धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ
सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम

१.१८४.१५पाञ्चालराजस्तु विषण्णरूप;स्तान्पाण्डवानप्रतिविन्दमानः
धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा

१.१८४.१६कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना
कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने

१.१८४.१७कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित्
कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र

१.१८४.१८कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण
ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य

१.१८४.१९विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः
कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम्