१. आदिपर्व
१.१८५.१वैशंपायन उवाच

१.१८५.२ततस्तथोक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः
धृष्टद्युम्नः सोमकानां प्रबर्हो; वृत्तं यथा येन हृता च कृष्णा

१.१८५.३योऽसौ युवा स्वायतलोहिताक्षः; कृष्णाजिनी देवसमानरूपः
यः कार्मुकाग्र्यं कृतवानधिज्यं; लक्ष्यं च तत्पातितवान्पृथिव्याम्

१.१८५.४असज्जमानश्च गतस्तरस्वी; वृतो द्विजाग्र्यैरभिपूज्यमानः
चक्राम वज्रीव दितेः सुतेषु; सर्वैश्च देवैरृषिभिश्च जुष्टः

१.१८५.५कृष्णा च गृह्याजिनमन्वयात्तं; नागं यथा नागवधूः प्रहृष्टा
अमृष्यमाणेषु नराधिपेषु; क्रुद्धेषु तं तत्र समापतत्सु

१.१८५.६ततोऽपरः पार्थिवराजमध्ये; प्रवृद्धमारुज्य महीप्ररोहम्
प्रकालयन्नेव स पार्थिवौघा;न्क्रुद्धोऽन्तकः प्राणभृतो यथैव

१.१८५.७तौ पार्थिवानां मिषतां नरेन्द्र; कृष्णामुपादाय गतौ नराग्र्यौ
विभ्राजमानाविव चन्द्रसूर्यौ; बाह्यां पुराद्भार्गवकर्मशालाम्

१.१८५.८तत्रोपविष्टार्चिरिवानलस्य; तेषां जनित्रीति मम प्रतर्कः
तथाविधैरेव नरप्रवीरै;रुपोपविष्टैस्त्रिभिरग्निकल्पैः

१.१८५.९तस्यास्ततस्तावभिवाद्य पादा;वुक्त्वा च कृष्णामभिवादयेति
स्थितौ च तत्रैव निवेद्य कृष्णां; भैक्षप्रचाराय गता नराग्र्याः

१.१८५.१०तेषां तु भैक्षं प्रतिगृह्य कृष्णा; कृत्वा बलिं ब्राह्मणसाच्च कृत्वा
तां चैव वृद्धां परिविष्य तांश्च; नरप्रवीरान्स्वयमप्यभुङ्क्त

१.१८५.११सुप्तास्तु ते पार्थिव सर्व एव; कृष्णा तु तेषां चरणोपधानम्
आसीत्पृथिव्यां शयनं च तेषां; दर्भाजिनाग्र्यास्तरणोपपन्नम्

१.१८५.१२ते नर्दमाना इव कालमेघाः; कथा विचित्राः कथयां बभूवुः
न वैश्यशूद्रौपयिकीः कथास्ता; न च द्विजातेः कथयन्ति वीराः

१.१८५.१३निःसंशयं क्षत्रियपुंगवास्ते; यथा हि युद्धं कथयन्ति राजन्
आशा हि नो व्यक्तमियं समृद्धा; मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात्

१.१८५.१४यथा हि लक्ष्यं निहतं धनुश्च; सज्यं कृतं तेन तथा प्रसह्य
यथा च भाषन्ति परस्परं ते; छन्ना ध्रुवं ते प्रचरन्ति पार्थाः

१.१८५.१५ततः स राजा द्रुपदः प्रहृष्टः; पुरोहितं प्रेषयां तत्र चक्रे
विद्याम युष्मानिति भाषमाणो; महात्मनः पाण्डुसुताः स्थ कच्चित्

१.१८५.१६गृहीतवाक्यो नृपतेः पुरोधा; गत्वा प्रशंसामभिधाय तेषाम्
वाक्यं यथावन्नृपतेः समग्र;मुवाच तान्स क्रमवित्क्रमेण

१.१८५.१७विज्ञातुमिच्छत्यवनीश्वरो वः; पाञ्चालराजो द्रुपदो वरार्हाः
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा; हर्षस्य नान्तं परिपश्यते सः

१.१८५.१८तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं; पदं शिरःसु द्विषतां कुरुध्वम्
प्रह्लादयध्वं हृदयं ममेदं; पाञ्चालराजस्य सहानुगस्य

१.१८५.१९पाण्डुर्हि राजा द्रुपदस्य राज्ञः; प्रियः सखा चात्मसमो बभूव
तस्यैष कामो दुहिता ममेयं; स्नुषा यदि स्यादिति कौरवस्य

१.१८५.२०अयं च कामो द्रुपदस्य राज्ञो; हृदि स्थितो नित्यमनिन्दिताङ्गाः
यदर्जुनो वै पृथुदीर्घबाहु;र्धर्मेण विन्देत सुतां ममेति

१.१८५.२१तथोक्तवाक्यं तु पुरोहितं तं; स्थितं विनीतं समुदीक्ष्य राजा
समीपस्थं भीममिदं शशास; प्रदीयतां पाद्यमर्घ्यं तथास्मै

१.१८५.२२मान्यः पुरोधा द्रुपदस्य राज्ञ;स्तस्मै प्रयोज्याभ्यधिकैव पूजा
भीमस्तथा तत्कृतवान्नरेन्द्र; तां चैव पूजां प्रतिसंगृहीत्वा

१.१८५.२३सुखोपविष्टं तु पुरोहितं तं; युधिष्ठिरो ब्राह्मणमित्युवाच
पाञ्चालराजेन सुता निसृष्टा; स्वधर्मदृष्टेन यथानुकामम्

१.१८५.२४प्रदिष्टशुल्का द्रुपदेन राज्ञा; सानेन वीरेण तथानुवृत्ता
न तत्र वर्णेषु कृता विवक्षा; न जीवशिल्पे न कुले न गोत्रे

१.१८५.२५कृतेन सज्येन हि कार्मुकेण; विद्धेन लक्ष्येण च संनिसृष्टा
सेयं तथानेन महात्मनेह; कृष्णा जिता पार्थिवसंघमध्ये

१.१८५.२६नैवंगते सौमकिरद्य राजा; संतापमर्हत्यसुखाय कर्तुम्
कामश्च योऽसौ द्रुपदस्य राज्ञः; स चापि संपत्स्यति पार्थिवस्य

१.१८५.२७अप्राप्यरूपां हि नरेन्द्रकन्या;मिमामहं ब्राह्मण साधु मन्ये
न तद्धनुर्मन्दबलेन शक्यं; मौर्व्या समायोजयितुं तथा हि
न चाकृतास्त्रेण न हीनजेन; लक्ष्यं तथा पातयितुं हि शक्यम्

१.१८५.२८तस्मान्न तापं दुहितुर्निमित्तं; पाञ्चालराजोऽर्हति कर्तुमद्य
न चापि तत्पातनमन्यथेह; कर्तुं विषह्यं भुवि मानवेन

१.१८५.२९एवं ब्रुवत्येव युधिष्ठिरे तु; पाञ्चालराजस्य समीपतोऽन्यः
तत्राजगामाशु नरो द्वितीयो; निवेदयिष्यन्निह सिद्धमन्नम्