१.२०२.१नारद उवाच
१.२०२.२उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ
मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा
१.२०२.३सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा
१.२०२.४गदापट्टिशधारिण्या शूलमुद्गरहस्तया
प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया
१.२०२.५मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः
चारणैः स्तूयमानौ तु जग्मतुः परया मुदा
१.२०२.६तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ
देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ
१.२०२.७तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः
१.२०२.८ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा
खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ
१.२०२.९अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ
समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः
१.२०२.१०ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ
सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः
१.२०२.११राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः
तेजो बलं च देवानां वर्धयन्ति श्रियं तथा
१.२०२.१२तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम्
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः
१.२०२.१३एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम्
१.२०२.१४यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः
तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा
१.२०२.१५आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम्
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः
१.२०२.१६तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः
नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः
१.२०२.१७नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव
नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः
१.२०२.१८पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः
१.२०२.१९मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः
शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा
१.२०२.२०राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ
१.२०२.२१प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ
संलीनानपि दुर्गेषु निन्यतुर्यमसादनम्
१.२०२.२२सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः
१.२०२.२३निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा
१.२०२.२४हाहाभूता भयार्ता च निवृत्तविपणापणा
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता
१.२०२.२५निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना
१.२०२.२६निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम्
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा
१.२०२.२७चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः
१.२०२.२८एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः