१.२०३.१नारद उवाच
१.२०३.२ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः
जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत्
१.२०३.३तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः
पितामहस्य भवनं जगतः कृपया तदा
१.२०३.४ततो ददृशुरासीनं सह देवैः पितामहम्
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्
१.२०३.५तत्र देवो महादेवस्तत्राग्निर्वायुना सह
चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः
१.२०३.६वैखानसा वालखिल्या वानप्रस्था मरीचिपाः
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः
ऋषयः सर्व एवैते पितामहमुपासते
१.२०३.७ततोऽभिगम्य सहिताः सर्व एव महर्षयः
सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे
१.२०३.८यथाकृतं यथा चैव कृतं येन क्रमेण च
न्यवेदयंस्ततः सर्वमखिलेन पितामहे
१.२०३.९ततो देवगणाः सर्वे ते चैव परमर्षयः
तमेवार्थं पुरस्कृत्य पितामहमचोदयन्
१.२०३.१०ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा
मुहूर्तमिव संचिन्त्य कर्तव्यस्य विनिश्चयम्
१.२०३.११तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः
सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः
१.२०३.१२पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च
निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः
१.२०३.१३त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम्
समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः
१.२०३.१४कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत्
तां रत्नसंघातमयीमसृजद्देवरूपिणीम्
१.२०३.१५सा प्रयत्नेन महता निर्मिता विश्वकर्मणा
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्
१.२०३.१६न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा
न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम्
१.२०३.१७सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती
जहार सर्वभूतानां चक्षूंषि च मनांसि च
१.२०३.१८तिलं तिलं समानीय रत्नानां यद्विनिर्मिता
तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः
१.२०३.१९पितामह उवाच
१.२०३.२०गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्
१.२०३.२१त्वत्कृते दर्शनादेव रूपसंपत्कृतेन वै
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु
१.२०३.२२नारद उवाच
१.२०३.२३सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्
१.२०३.२४प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्
१.२०३.२५कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम्
इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ
१.२०३.२६द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा
अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम्
१.२०३.२७पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम्
गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्
१.२०३.२८महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्
१.२०३.२९एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा
तथा सहस्रनेत्रश्च बभूव बलसूदनः
१.२०३.३०तथा देवनिकायानामृषीणां चैव सर्वशः
मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा
१.२०३.३१तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम्
सर्वेषामेव भूयिष्ठमृते देवं पितामहम्
१.२०३.३२गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा
१.२०३.३३तिलोत्तमायां तु तदा गतायां लोकभावनः
सर्वान्विसर्जयामास देवानृषिगणांश्च तान्