१. आदिपर्व
१.२१५.१वैशंपायन उवाच

१.२१५.२सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्
लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः

१.२१५.३ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम्

१.२१५.४एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे

१.२१५.५एवमुक्तः स भगवानब्रवीत्तावुभौ ततः
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति

१.२१५.६नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्

१.२१५.७इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति
तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना

१.२१५.८वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा
सगणस्तत्कृते दावं परिरक्षति वज्रभृत्

१.२१५.९तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा

१.२१५.१०स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्

१.२१५.११स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः
दहेयं खाण्डवं दावमेतदन्नं वृतं मया

१.२१५.१२युवां ह्युदकधारास्ता भूतानि च समन्ततः
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः

१.२१५.१३एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम्
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः

१.२१५.१४उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्

१.२१५.१५धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्
कुर्वतः समरे यत्नं वेगं यद्विषहेत मे

१.२१५.१६शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्

१.२१५.१७अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्

१.२१५.१८तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे

१.२१५.१९उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि
निवारयेयं येनेन्द्रं वर्षमाणं महावने

१.२१५.२०पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक
करणानि समर्थानि भगवन्दातुमर्हसि