१. आदिपर्व
१.२१७.१वैशंपायन उवाच

१.२१७.२तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्

१.२१७.३यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः
पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम्

१.२१७.४छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात्
आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ

१.२१७.५खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः
उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश

१.२१७.६दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः

१.२१७.७समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे
त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः

१.२१७.८विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः
तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे

१.२१७.९दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः

१.२१७.१०जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत
गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः

१.२१७.११शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः
अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये

१.२१७.१२तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः
दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि

१.२१७.१३ते शराचितसर्वाङ्गा विनदन्तो महारवान्
ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः

१.२१७.१४शरैरभ्याहतानां च दह्यतां च वनौकसाम्
विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः

१.२१७.१५वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्

१.२१७.१६ततो जग्मुर्महात्मानः सर्व एव दिवौकसः
शरणं देवराजानं सहस्राक्षं पुरंदरम्

१.२१७.१७देवा ऊचुः

१.२१७.१८किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर

१.२१७.१९वैशंपायन उवाच

१.२१७.२०तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः

१.२१७.२१महता मेघजालेन नानारूपेण वज्रभृत्
आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः

१.२१७.२२ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः
अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति

१.२१७.२३असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः
ख एव समशुष्यन्त न काश्चित्पावकं गताः

१.२१७.२४ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा
पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु

१.२१७.२५अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्
बभूव तद्वनं घोरं स्तनयित्नुसघोषवत्