१.२१९.१वैशंपायन उवाच
१.२१९.२तथा शैलनिपातेन भीषिताः खाण्डवालयाः
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा
१.२१९.३मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा
समुद्विग्ना विससृपुस्तथान्या भूतजातयः
१.२१९.४तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ
उत्पातनादशब्देन संत्रासित इवाभवन्
१.२१९.५स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः
तेन ता जातयः क्षुद्राः सदानवनिशाचराः
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्
१.२१९.६अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः
वसारुधिरसंपृक्ताः संध्यायामिव तोयदाः
१.२१९.७पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत
१.२१९.८क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः
हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः
१.२१९.९तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा
१.२१९.१०समेतानां च देवानां दानवानां च सर्वशः
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे
१.२१९.११तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः
नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः
१.२१९.१२शतक्रतुश्च संप्रेक्ष्य विमुखान्देवतागणान्
बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ
१.२१९.१३निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी
शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना
१.२१९.१४न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ
१.२१९.१५न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ
वासुदेवार्जुनौ शक्र निबोधेदं वचो मम
१.२१९.१६नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ
१.२१९.१७नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ
१.२१९.१८पूजनीयतमावेतावपि सर्वैः सुरासुरैः
सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः
१.२१९.१९तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्
१.२१९.२०इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः
कोपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा
१.२१९.२१तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः
त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम्
१.२१९.२२देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः
१.२१९.२३देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ
निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा
१.२१९.२४स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान्
व्यधमच्छरसंपातैः प्राणिनः खाण्डवालयान्
१.२१९.२५न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
संछिद्यमानमिषुभिरस्यता सव्यसाचिना
१.२१९.२६नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम्
निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम्
१.२१९.२७शतेनैकं च विव्याध शतं चैकेन पत्रिणा
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव
१.२१९.२८न चालभन्त ते शर्म रोधःसु विषमेषु च
पितृदेवनिवासेषु संतापश्चाप्यजायत
१.२१९.२९भूतसंघसहस्राश्च दीनाश्चक्रुर्महास्वनम्
रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः
१.२१९.३०न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम्
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः
१.२१९.३१एकायनगता येऽपि निष्पतन्त्यत्र केचन
राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः
१.२१९.३२ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः
पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः
१.२१९.३३स मांसरुधिरौघैश्च मेदौघैश्च समीरितः
उपर्याकाशगो वह्निर्विधूमः समदृश्यत
१.२१९.३४दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्
१.२१९.३५तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः
१.२१९.३६अथासुरं मयं नाम तक्षकस्य निवेशनात्
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः
१.२१९.३७तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः
देहवान्वै जटी भूत्वा नदंश्च जलदो यथा
जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः
१.२१९.३८स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम्
अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत
१.२१९.३९तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः
प्रत्युवाच मयं पार्थो जीवयन्निव भारत
१.२१९.४०तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च
१.२१९.४१तस्मिन्वने दह्यमाने षडग्निर्न ददाह च
अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति