१. आदिपर्व
१.२३.१सूत उवाच

१.२३.२सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै
सागराम्बुपरिक्षिप्तं पक्षिसंघनिनादितम्

१.२३.३विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि

१.२३.४प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम्
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्

१.२३.५उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः

१.२३.६किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः
मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम्
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्

१.२३.७तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा
अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम्

१.२३.८वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम्
त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर

१.२३.९स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्

१.२३.१०विनतोवाच

१.२३.११दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम
पणं वितथमास्थाय सर्पैरुपधिना कृतम्

१.२३.१२सूत उवाच

१.२३.१३तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः

१.२३.१४किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम्
दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः

१.२३.१५श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा
ततो दास्याद्विप्रमोक्षो भविता तव खेचर