२. सभापर्व
२.१.१वैशंपायन उवाच
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः

२.१.२अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते

२.१.३अर्जुन उवाच

२.१.४कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते

२.१.५मय उवाच

२.१.६युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ
प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत

२.१.७अहं हि विश्वकर्मा वै दानवानां महाकविः
सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव

२.१.८अर्जुन उवाच

२.१.९प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया
एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया

२.१.१०न चापि तव संकल्पं मोघमिच्छामि दानव
कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि

२.१.११वैशंपायन उवाच

२.१.१२चोदितो वासुदेवस्तु मयेन भरतर्षभ
मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति

२.१.१३चोदयामास तं कृष्णः सभा वै क्रियतामिति
धर्मराजस्य दैतेय यादृशीमिह मन्यसे

२.१.१४यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः
मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम्

२.१.१५यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया
आसुरान्मानुषांश्चैव तां सभां कुरु वै मय

२.१.१६प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा
विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा

२.१.१७ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे
सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम्

२.१.१८तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा
स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः

२.१.१९स पूर्वदेवचरितं तत्र तत्र विशां पते
कथयामास दैतेयः पाण्डुपुत्रेषु भारत

२.१.२०स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्

२.१.२१अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः

२.१.२२तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्

२.१.२३सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम्
दशकिष्कुसहस्रां तां मापयामास सर्वतः