१. आदिपर्व
१.२५.१सूत उवाच

१.२५.२तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः

१.२५.३द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा

१.२५.४ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत
निषादी मम भार्येयं निर्गच्छतु मया सह

१.२५.५गरुड उवाच

१.२५.६एतामपि निषादीं त्वं परिगृह्याशु निष्पत
तूर्णं संभावयात्मानमजीर्णं मम तेजसा

१.२५.७सूत उवाच

१.२५.८ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह

१.२५.९सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्
वितत्य पक्षावाकाशमुत्पपात मनोजवः

१.२५.१०ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः
अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै

१.२५.११मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः

१.२५.१२तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो

१.२५.१३कश्यप उवाच

१.२५.१४आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः

१.२५.१५स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः
विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः

१.२५.१६अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा
ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः

१.२५.१७ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः

१.२५.१८विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते

१.२५.१९तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः
गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम्

१.२५.२०नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि

१.२५.२१शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि

१.२५.२२एवमन्योन्यशापात्तौ सुप्रतीकविभावसू
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ

१.२५.२३रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि
परस्परद्वेषरतौ प्रमाणबलदर्पितौ

१.२५.२४सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ
तयोरेकतरः श्रीमान्समुपैति महागजः

१.२५.२५तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः
उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः

१.२५.२६तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम्
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्

१.२५.२७तं विक्षोभयमाणं तु सरो बहुझषाकुलम्
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्

१.२५.२८षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः

१.२५.२९तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः

१.२५.३०सूत उवाच

१.२५.३१स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्

१.२५.३२समुत्पपात चाकाशं तत उच्चैर्विहंगमः
सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत्

१.२५.३३ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः

१.२५.३४प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान्
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः

१.२५.३५काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्

१.२५.३६तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्

१.२५.३७यैषा मम महाशाखा शतयोजनमायता
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ

१.२५.३८ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन्
खगोत्तमो द्रुतमभिपत्य वेगवा;न्बभञ्ज तामविरलपत्रसंवृताम्