१. आदिपर्व
१.२६.१सूत उवाच

१.२६.२स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा
अभज्यत तरोः शाखा भग्नां चैनामधारयत्

१.२६.३तां भग्नां स महाशाखां स्मयन्समवलोकयन्
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्

१.२६.४स तद्विनाशसंत्रासादनुपत्य खगाधिपः
शाखामास्येन जग्राह तेषामेवान्ववेक्षया
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन्

१.२६.५एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः
दयार्थं वालखिल्यानां न च स्थानमविन्दत

१.२६.६स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम्
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्

१.२६.७ददर्श तं पिता चापि दिव्यरूपं विहंगमम्
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्

१.२६.८शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्
अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम्

१.२६.९मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम्
अप्रधृष्यमजेयं च देवदानवराक्षसैः

१.२६.१०भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम्
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्

१.२६.११तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्

१.२६.१२पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः

१.२६.१३प्रसादयामास स तान्कश्यपः पुत्रकारणात्
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम्

१.२६.१४प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ

१.२६.१५एवमुक्ता भगवता मुनयस्ते समभ्ययुः
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः

१.२६.१६ततस्तेष्वपयातेषु पितरं विनतात्मजः
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्

१.२६.१७भगवन्क्व विमुञ्चामि तरुशाखामिमामहम्
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम

१.२६.१८ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम्
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः

१.२६.१९तं पर्वतमहाकुक्षिमाविश्य मनसा खगः
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः

१.२६.२०न तां वध्रः परिणहेच्छतचर्मा महानणुः
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः

१.२६.२१ततः स शतसाहस्रं योजनान्तरमागतः
कालेन नातिमहता गरुडः पततां वरः

१.२६.२२स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः

१.२६.२३पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्
मुमोच पुष्पवर्षं च समागलितपादपः

१.२६.२४शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्

१.२६.२५शाखिनो बहवश्चापि शाखयाभिहतास्तया
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः

१.२६.२६ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः

१.२६.२७ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः
भक्षयामास गरुडस्तावुभौ गजकच्छपौ

१.२६.२८ततः पर्वतकूटाग्रादुत्पपात मनोजवः
प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः

१.२६.२९इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम्
सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता

१.२६.३०तथा वसूनां रुद्राणामादित्यानां च सर्वशः
साध्यानां मरुतां चैव ये चान्ये देवतागणाः
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्

१.२६.३१अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः

१.२६.३२निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम्
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा

१.२६.३३मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्

१.२६.३४ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्

१.२६.३५किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्

१.२६.३६बृहस्पतिरुवाच

१.२६.३७तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम्

१.२६.३८कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान्

१.२६.३९समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्

१.२६.४०सूत उवाच

१.२६.४१श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः

१.२६.४२युष्मान्संबोधयाम्येष यथा स न हरेद्बलात्
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे

१.२६.४३तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः

१.२६.४४धारयन्तो महार्हाणि कवचानि मनस्विनः
काञ्चनानि विचित्राणि वैडूर्यविकृतानि च

१.२६.४५विविधानि च शस्त्राणि घोररूपाण्यनेकशः
शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः

१.२६.४६सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्

१.२६.४७शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः

१.२६.४८तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः

१.२६.४९अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य
असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः

१.२६.५०इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम्
विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ