१. आदिपर्व
१.३२.१शौनक उवाच

१.३२.२जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम्

१.३२.३सूत उवाच

१.३२.४तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः
तपो विपुलमातस्थे वायुभक्षो यतव्रतः

१.३२.५गन्धमादनमासाद्य बदर्यां च तपोरतः
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे

१.३२.६तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च
एकान्तशीली नियतः सततं विजितेन्द्रियः

१.३२.७तप्यमानं तपो घोरं तं ददर्श पितामहः
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम्

१.३२.८तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु

१.३२.९त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम्

१.३२.१०शेष उवाच

१.३२.११सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्

१.३२.१२अभ्यसूयन्ति सततं परस्परममित्रवत्
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत

१.३२.१३न मर्षयन्ति सततं विनतां ससुतां च ते
अस्माकं चापरो भ्राता वैनतेयः पितामह

१.३२.१४तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः
वरप्रदानात्स पितुः कश्यपस्य महात्मनः

१.३२.१५सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः

१.३२.१६ब्रह्मोवाच

१.३२.१७जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्

१.३२.१८कृतोऽत्र परिहारश्च पूर्वमेव भुजंगम
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि

१.३२.१९वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्
दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि

१.३२.२०दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा

१.३२.२१शेष उवाच

१.३२.२२एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर

१.३२.२३ब्रह्मोवाच

१.३२.२४प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्

१.३२.२५इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च
त्वं शेष सम्यक्चलितां यथाव;त्संगृह्य तिष्ठस्व यथाचला स्यात्

१.३२.२६शेष उवाच

१.३२.२७यथाह देवो वरदः प्रजापति;र्महीपतिर्भूतपतिर्जगत्पतिः
तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते

१.३२.२८ब्रह्मोवाच

१.३२.२९अधो महीं गच्छ भुजंगमोत्तम; स्वयं तवैषा विवरं प्रदास्यति
इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति

१.३२.३०सूत उवाच

१.३२.३१तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः
बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः

१.३२.३२ब्रह्मोवाच

१.३२.३३शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः
अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा

१.३२.३४सूत उवाच

१.३२.३५अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान्
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः

१.३२.३६सुपर्णं च सखायं वै भगवानमरोत्तमः
प्रादादनन्ताय तदा वैनतेयं पितामहः