१.३३.१सूत उवाच
१.३३.२मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्
१.३३.३ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः
ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः
१.३३.४वासुकिरुवाच
१.३३.५अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे
१.३३.६सर्वेषामेव शापानां प्रतिघातो हि विद्यते
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः
१.३३.७अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः
१.३३.८नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः
न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्
१.३३.९तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम्
यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम्
१.३३.१०अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्
१.३३.११यथा स यज्ञो न भवेद्यथा वापि पराभवेत्
जनमेजयस्य सर्पाणां विनाशकरणाय हि
१.३३.१२सूत उवाच
१.३३.१३तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः
१.३३.१४एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः
जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति
१.३३.१५अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः
१.३३.१६स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते
१.३३.१७स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्
१.३३.१८दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः
१.३३.१९अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति
सर्पसत्रविधानज्ञो राजकार्यहिते रतः
१.३३.२०तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति
तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति
१.३३.२१ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति
१.३३.२२तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः
अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना
१.३३.२३सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्
१.३३.२४अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः
१.३३.२५स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति
१.३३.२६यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति
१.३३.२७अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना
१.३३.२८अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति
वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम्
१.३३.२९अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः
१.३३.३०अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः
दशामैनं प्रगृह्याशु कृतमेवं भविष्यति
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति
१.३३.३१एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता
यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम्
१.३३.३२इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्
वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान्
१.३३.३३नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते
१.३३.३४किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम्
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ