१. आदिपर्व
१.३४.१सूत उवाच

१.३४.२श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्

१.३४.३न स यज्ञो न भविता न स राजा तथाविधः
जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम्

१.३४.४दैवेनोपहतो राजन्यो भवेदिह पूरुषः
स दैवमेवाश्रयते नान्यत्तत्र परायणम्

१.३४.५तदिदं दैवमस्माकं भयं पन्नगसत्तमाः
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम

१.३४.६अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः

१.३४.७देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो
पितामहमुपागम्य दुःखार्तानां महाद्युते

१.३४.८देवा ऊचुः

१.३४.९का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः

१.३४.१०तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता

१.३४.११ब्रह्मोवाच

१.३४.१२बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः
प्रजानां हितकामोऽहं न निवारितवांस्तदा

१.३४.१३ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः
तेषां विनाशो भविता न तु ये धर्मचारिणः

१.३४.१४यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्
पन्नगानां निबोधध्वं तस्मिन्काले तथागते

१.३४.१५यायावरकुले धीमान्भविष्यति महानृषिः
जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः

१.३४.१६तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः

१.३४.१७देवा ऊचुः

१.३४.१८स मुनिप्रवरो देव जरत्कारुर्महातपाः
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्

१.३४.१९ब्रह्मोवाच

१.३४.२०सनामायां सनामा स कन्यायां द्विजसत्तमः
अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति

१.३४.२१एलापत्र उवाच

१.३४.२२एवमस्त्विति तं देवाः पितामहमथाब्रुवन्
उक्त्वा चैवं गता देवाः स च देवः पितामहः

१.३४.२३सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय

१.३४.२४भैक्षवद्भिक्षमाणाय नागानां भयशान्तये
ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया