१.३५.१सूत उवाच
१.३५.२एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम
सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन्
१.३५.३ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत
जरत्कारुं स्वसारं वै परं हर्षमवाप च
१.३५.४ततो नातिमहान्कालः समतीत इवाभवत्
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम्
१.३५.५तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः
समाप्यैव च तत्कर्म पितामहमुपागमन्
१.३५.६देवा वासुकिना सार्धं पितामहमथाब्रुवन्
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम्
१.३५.७तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि
जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः
१.३५.८हितो ह्ययं सदास्माकं प्रियकारी च नागराट्
कुरु प्रसादं देवेश शमयास्य मनोज्वरम्
१.३५.९ब्रह्मोवाच
१.३५.१०मयैवैतद्वितीर्णं वै वचनं मनसामराः
एलापत्रेण नागेन यदस्याभिहितं पुरा
१.३५.११तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः
१.३५.१२उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु
१.३५.१३यदेलापत्रेण वचस्तदोक्तं भुजगेन ह
पन्नगानां हितं देवास्तत्तथा न तदन्यथा
१.३५.१४सूत उवाच
१.३५.१५एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्
१.३५.१६जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः
शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति