१.३६.१शौनक उवाच
१.३६.२जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन
इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः
१.३६.३किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि
जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि
१.३६.४सूत उवाच
१.३६.५जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्
शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः
१.३६.६क्षपयामास तीव्रेण तपसेत्यत उच्यते
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा
१.३६.७एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्
१.३६.८सूत उवाच
१.३६.९अथ कालस्य महतः स मुनिः संशितव्रतः
तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत
१.३६.१०स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन्
चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत्
१.३६.११ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु
परिक्षिदिति विख्यातो राजा कौरववंशभृत्
१.३६.१२यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि
बभूव मृगयाशीलः पुरास्य प्रपितामहः
१.३६.१३मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः
१.३६.१४स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा
पृष्ठतो धनुरादाय ससार गहने वने
१.३६.१५यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि
अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः
१.३६.१६न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम्
पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति
परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः
१.३६.१७दूरं चापहृतस्तेन मृगेण स महीपतिः
परिश्रान्तः पिपासार्त आससाद मुनिं वने
१.३६.१८गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः
१.३६.१९तमभिद्रुत्य वेगेन स राजा संशितव्रतम्
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः
१.३६.२०भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः
मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि
१.३६.२१स मुनिस्तस्य नोवाच किंचिन्मौनव्रते स्थितः
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत्
१.३६.२२धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत
न च किंचिदुवाचैनं शुभं वा यदि वाशुभम्
१.३६.२३स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्
दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः
१.३६.२४तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः
१.३६.२५स देवं परमीशानं सर्वभूतहिते रतम्
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्
१.३६.२६सख्योक्तः क्रीडमानेन स तत्र हसता किल
संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः
ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम
१.३६.२७तेजस्विनस्तव पिता तथैव च तपस्विनः
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव
१.३६.२८व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वदीः
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु
१.३६.२९क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः
दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा