१. आदिपर्व
१.३७.१सूत उवाच

१.३७.२एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना

१.३७.३स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन्
अपृच्छत कथं तातः स मेऽद्य मृतधारकः

१.३७.४कृश उवाच

१.३७.५राज्ञा परिक्षिता तात मृगयां परिधावता
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः

१.३७.६शृङ्ग्युवाच

१.३७.७किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः
ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम्

१.३७.८कृश उवाच

१.३७.९स राजा मृगयां यातः परिक्षिदभिमन्युजः
ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा

१.३७.१०न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्

१.३७.११तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः
पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव

१.३७.१२स च मौनव्रतोपेतो नैव तं प्रत्यभाषत
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत्

१.३७.१३शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः
सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम्

१.३७.१४सूत उवाच

१.३७.१५श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना

१.३७.१६आविष्टः स तु कोपेन शशाप नृपतिं तदा
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः

१.३७.१७शृङ्ग्युवाच

१.३७.१८योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च
स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी

१.३७.१९तं पापमतिसंक्रुद्धस्तक्षकः पन्नगोत्तमः
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः

१.३७.२०सप्तरात्रादितो नेता यमस्य सदनं प्रति
द्विजानामवमन्तारं कुरूणामयशस्करम्

१.३७.२१सूत उवाच

१.३७.२२इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात्
आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम्

१.३७.२३स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै
शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः

१.३७.२४दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना

१.३७.२५राज्ञा परिक्षिता कोपादशपं तमहं नृपम्
यथार्हति स एवोग्रं शापं कुरुकुलाधमः

१.३७.२६सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः
वैवस्वतस्य भवनं नेता परमदारुणम्

१.३७.२७तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्

१.३७.२८वयं तस्य नरेन्द्रस्य विषये निवसामहे
न्यायतो रक्षितास्तेन तस्य पापं न रोचये

१.३७.२९सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः

१.३७.३०यदि राजा न रक्षेत पीडा वै नः परा भवेत्
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्

१.३७.३१रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः
चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः

१.३७.३२परिक्षित्तु विशेषेण यथास्य प्रपितामहः
रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा

१.३७.३३तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना
अजानता व्रतमिदं कृतमेतदसंशयम्

१.३७.३४तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा