१. आदिपर्व
१.३८.१शृङ्ग्युवाच

१.३८.२यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया

१.३८.३नैवान्यथेदं भविता पितरेष ब्रवीमि ते
नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन्

१.३८.४शमीक उवाच

१.३८.५जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा
नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति

१.३८.६पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः

१.३८.७किं पुनर्बाल एव त्वं तपसा भावितः प्रभो
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम्

१.३८.८सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्

१.३८.९स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन्
चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि

१.३८.१०क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्
ततो धर्मविहीनानां गतिरिष्टा न विद्यते

१.३८.११शम एव यतीनां हि क्षमिणां सिद्धिकारकः
क्षमावतामयं लोकः परश्चैव क्षमावताम्

१.३८.१२तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्

१.३८.१३मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै
तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै

१.३८.१४मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा

१.३८.१५सूत उवाच

१.३८.१६एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः
परिक्षिते नृपतये दयापन्नो महातपाः

१.३८.१७संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्

१.३८.१८सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्
विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः

१.३८.१९पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः
आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः
शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ

१.३८.२०शमीको नाम राजेन्द्र विषये वर्तते तव
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः

१.३८.२१तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः
अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे

१.३८.२२तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै
तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति

१.३८.२३तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत

१.३८.२४न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम्
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना

१.३८.२५इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः

१.३८.२६तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा
भूय एवाभवद्राजा शोकसंतप्तमानसः

१.३८.२७अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः

१.३८.२८न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्

१.३८.२९ततस्तं प्रेषयामास राजा गौरमुखं तदा
भूयः प्रसादं भगवान्करोत्विति ममेति वै

१.३८.३०तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः

१.३८.३१निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित्
प्रासादं कारयामास एकस्तम्भं सुरक्षितम्

१.३८.३२रक्षां च विदधे तत्र भिषजश्चौषधानि च
ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत्

१.३८.३३राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः

१.३८.३४प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्

१.३८.३५श्रुतं हि तेन तदभूदद्य तं राजसत्तमम्
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्

१.३८.३६तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्

१.३८.३७तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि
गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः

१.३८.३८तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम्
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति

१.३८.३९काश्यप उवाच

१.३८.४०नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम्
तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति

१.३८.४१तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा
पाण्डवानां कुलकरं राजानममितौजसम्
गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम्

१.३८.४२तक्षक उवाच

१.३८.४३अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्

१.३८.४४काश्यप उवाच

१.३८.४५अहं तं नृपतिं नाग त्वया दष्टमपज्वरम्
करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः