१.३९.१तक्षक उवाच
१.३९.२दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम्
ततो वृक्षं मया दष्टमिमं जीवय काश्यप
१.३९.३परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम
१.३९.४काश्यप उवाच
१.३९.५दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम
१.३९.६सूत उवाच
१.३९.७एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः
१.३९.८स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते
आशीविषविषोपेतः प्रजज्वाल समन्ततः
१.३९.९तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्
१.३९.१०भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्
१.३९.११विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम
१.३९.१२ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्
१.३९.१३अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम्
पलाशिनं शाखिनं च तथा विटपिनं पुनः
१.३९.१४तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना
उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि
१.३९.१५विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन
१.३९.१६यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्
१.३९.१७विप्रशापाभिभूते च क्षीणायुषि नराधिपे
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्
१.३९.१८ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्
विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत्
१.३९.१९काश्यप उवाच
१.३९.२०धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम
१.३९.२१तक्षक उवाच
१.३९.२२यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम
१.३९.२३सूत उवाच
१.३९.२४तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्
१.३९.२५दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्
१.३९.२६निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्
१.३९.२७अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्
मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः
१.३९.२८स चिन्तयामास तदा मायायोगेन पार्थिवः
मया वञ्चयितव्योऽसौ क उपायो भवेदिति
१.३९.२९ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः
१.३९.३०तक्षक उवाच
१.३९.३१गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम्
१.३९.३२सूत उवाच
१.३९.३३ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च
१.३९.३४तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्
कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान्
१.३९.३५गतेषु तेषु नागेषु तापसच्छद्मरूपिषु
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः
१.३९.३६भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः
तापसैरुपनीतानि फलानि सहिता मया
१.३९.३७ततो राजा ससचिवः फलान्यादातुमैच्छत
यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः
ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक
१.३९.३८स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्
अस्तमभ्येति सविता विषादद्य न मे भयम्
१.३९.३९सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम्
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्
१.३९.४०ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः
१.३९.४१हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम्