१.४०.१सूत उवाच
१.४०.२तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्
विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः
१.४०.३तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः
अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम्
१.४०.४सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः
१.४०.५ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः
भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा
१.४०.६ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः
शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः
१.४०.७नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः
नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः
१.४०.८स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा
शशास राज्यं कुरुपुंगवाग्रजो; यथास्य वीरः प्रपितामहस्तथा
१.४०.९ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः
सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः
१.४०.१०ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः
स चापि तां प्राप्य मुदा युतोऽभव;न्न चान्यनारीषु मनो दधे क्वचित्
१.४०.११सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान्
तथा स राजन्यवरो विजह्रिवा;न्यथोर्वशीं प्राप्य पुरा पुरूरवाः
१.४०.१२वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम्
भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी