१. आदिपर्व
१.४१.१सूत उवाच

१.४१.२एतस्मिन्नेव काले तु जरत्कारुर्महातपाः
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः

१.४१.३चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः
तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह

१.४१.४वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः
स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्

१.४१.५एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्
तं च तन्तुं शनैराखुमाददानं बिलाश्रयम्

१.४१.६निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत

१.४१.७के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः
दुर्बलं खादितैर्मूलैराखुना बिलवासिना

१.४१.८वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्
तदप्ययं शनैराखुरादत्ते दशनैः शितैः

१.४१.९छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव
ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः

१.४१.१०ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः

१.४१.११तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः
अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम्

१.४१.१२अथ वापि समग्रेण तरन्तु तपसा मम
भवन्तः सर्व एवास्मात्काममेवं विधीयताम्

१.४१.१३पितर ऊचुः

१.४१.१४ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति
न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम्

१.४१.१५अस्ति नस्तात तपसः फलं प्रवदतां वर
संतानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ

१.४१.१६लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै
येन त्वां नाभिजानीमो लोके विख्यातपौरुषम्

१.४१.१७ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्
शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज

१.४१.१८यायावरा नाम वयमृषयः संशितव्रताः
लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयाद्विभो

१.४१.१९प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै
अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा

१.४१.२०मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः
नियतात्मा महात्मा च सुव्रतः सुमहातपाः

१.४१.२१तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन

१.४१.२२तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्
स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया

१.४१.२३पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः
साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो
कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन

१.४१.२४यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्
एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः

१.४१.२५यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः
एते नस्तन्तवस्तात कालेन परिभक्षिताः

१.४१.२६यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्
तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः

१.४१.२७यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः
स तं तपोरतं मन्दं शनैः क्षपयते तुदन्
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्

१.४१.२८न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः
नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा

१.४१.२९अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः

१.४१.३०तपो वाप्यथ वा यज्ञो यच्चान्यत्पावनं महत्
तत्सर्वं न समं तात संतत्येति सतां मतम्

१.४१.३१स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम्
यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः

१.४१.३२यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा
तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया