१.४२.१सूत उवाच
१.४२.२एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः
उवाच स्वान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा
१.४२.३अहमेव जरत्कारुः किल्बिषी भवतां सुतः
तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः
१.४२.४पितर ऊचुः
१.४२.५पुत्र दिष्ट्यासि संप्राप्त इमं देशं यदृच्छया
किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः
१.४२.६जरत्कारुरुवाच
१.४२.७ममायं पितरो नित्यं हृद्यर्थः परिवर्तते
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै
१.४२.८एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः
१.४२.९करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन
१.४२.१०भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्
१.४२.११एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि
अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः
१.४२.१२सूत उवाच
१.४२.१३एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक
१.४२.१४यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा
तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः
१.४२.१५यानि भूतानि सन्तीह स्थावराणि चराणि च
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः
१.४२.१६उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम्
निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया
१.४२.१७निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः
दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः
१.४२.१८यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्
१.४२.१९मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत्
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत
१.४२.२०ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्
१.४२.२१तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलंकृताम्
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः
१.४२.२२तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत
१.४२.२३असनामेति वै मत्वा भरणे चाविचारिते
मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे
१.४२.२४ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन
वासुके भरणं चास्या न कुर्यामित्युवाच ह