१. आदिपर्व
१.४३.१सूत उवाच

१.४३.२वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा
सनामा तव कन्येयं स्वसा मे तपसान्विता

१.४३.३भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन

१.४३.४प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह

१.४३.५तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्

१.४३.६ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम्
जगाम भार्यामादाय स्तूयमानो महर्षिभिः

१.४३.७शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम्
तत्र भार्यासहायः स जरत्कारुरुवास ह

१.४३.८स तत्र समयं चक्रे भार्यया सह सत्तमः
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन

१.४३.९त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे
एतद्गृहाण वचनं मया यत्समुदीरितम्

१.४३.१०ततः परमसंविग्ना स्वसा नागपतेस्तु सा
अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति

१.४३.११तथैव सा च भर्तारं दुःखशीलमुपाचरत्
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी

१.४३.१२ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा
भर्तारं तं यथान्यायमुपतस्थे महामुनिम्

१.४३.१३तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः
अतीव तपसा युक्तो वैश्वानरसमद्युतिः
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः

१.४३.१४ततः कतिपयाहस्य जरत्कारुर्महातपाः
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्

१.४३.१५तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्
अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी

१.४३.१६किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्

१.४३.१७कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः
धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः

१.४३.१८उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति
धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्

१.४३.१९इति निश्चित्य मनसा जरत्कारुर्भुजंगमा
तमृषिं दीप्ततपसं शयानमनलोपमम्
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी

१.४३.२०उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति
संध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः

१.४३.२१प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः
संध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो

१.४३.२२एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः
भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत्

१.४३.२३अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्

१.४३.२४न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते

१.४३.२५न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित्
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा

१.४३.२६एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्
अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने

१.४३.२७नावमानात्कृतवती तवाहं प्रतिबोधनम्
धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया

१.४३.२८उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम्

१.४३.२९न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः

१.४३.३०सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे
इतो मयि गते भीरु गतः स भगवानिति
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि

१.४३.३१इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा

१.४३.३२बाष्पगद्गदया वाचा मुखेन परिशुष्यता
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः
धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता

१.४३.३३न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्

१.४३.३४प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः

१.४३.३५मातृशापाभिभूतानां ज्ञातीनां मम सत्तम
अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते

१.४३.३६त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्
संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज

१.४३.३७ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये
इममव्यक्तरूपं मे गर्भमाधाय सत्तम
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्

१.४३.३८एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्
यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः

१.४३.३९अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः

१.४३.४०एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः
उग्राय तपसे भूयो जगाम कृतनिश्चयः