१.४४.१सूत उवाच
१.४४.२गतमात्रं तु भर्तारं जरत्कारुरवेदयत्
भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन
१.४४.३ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्
१.४४.४जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत्
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि
१.४४.५स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्
एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह
१.४४.६अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः
१.४४.७कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्
किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम्
१.४४.८दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्
१.४४.९आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम्
शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम्
१.४४.१०जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत
आश्वासयन्ती संतप्तं वासुकिं पन्नगेश्वरम्
१.४४.११पृष्टो मयापत्यहेतोः स महात्मा महातपाः
अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः
१.४४.१२स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित्
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति
१.४४.१३न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे
उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः
१.४४.१४इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम्
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्
१.४४.१५एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत
१.४४.१६सान्त्वमानार्थदानैश्च पूजया चानुरूपया
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः
१.४४.१७ततः स ववृधे गर्भो महातेजा रविप्रभः
यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि
१.४४.१८यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा
कुमारं देवगर्भाभं पितृमातृभयापहम्
१.४४.१९ववृधे स च तत्रैव नागराजनिवेशने
वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात्
१.४४.२०चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत
१.४४.२१अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्
१.४४.२२स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्
गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत
१.४४.२३भगवानिव देवेशः शूलपाणिर्हिरण्यदः
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्