१.४५.१शौनक उवाच
१.४५.२यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद
१.४५.३सूत उवाच
१.४५.४शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा
आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः
१.४५.५जनमेजय उवाच
१.४५.६जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम
आसीद्यथा च निधनं गतः काले महायशाः
१.४५.७श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः
कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित्
१.४५.८सूत उवाच
१.४५.९मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना
सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम्
१.४५.१०धर्मात्मा च महात्मा च प्रजापालः पिता तव
आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्
१.४५.११चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव
१.४५.१२ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः
द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कंचन
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्
१.४५.१३ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः
१.४५.१४विधवानाथकृपणान्विकलांश्च बभार सः
सुदर्शः सर्वभूतानामासीत्सोम इवापरः
१.४५.१५तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः
धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः
१.४५.१६गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः
१.४५.१७परिक्षीणेषु कुरुषु उत्तरायामजायत
परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली
१.४५.१८राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः
जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः
१.४५.१९षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः
प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत्
ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम्
१.४५.२०ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान्
इदं वर्षसहस्राय राज्यं कुरुकुलागतम्
बाल एवाभिजातोऽसि सर्वभूतानुपालकः
१.४५.२१जनमेजय उवाच
१.४५.२२नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च
विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम्
१.४५.२३कथं निधनमापन्नः पिता मम तथाविधः
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः
१.४५.२४सूत उवाच
१.४५.२५एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम्
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः
१.४५.२६बभूव मृगयाशीलस्तव राजन्पिता सदा
यथा पाण्डुर्महाभागो धनुर्धरवरो युधि
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः
१.४५.२७स कदाचिद्वनचरो मृगं विव्याध पत्रिणा
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने
१.४५.२८पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान्
न चाससाद गहने मृगं नष्टं पिता तव
१.४५.२९परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः
क्षुधितः स महारण्ये ददर्श मुनिमन्तिके
१.४५.३०स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम्
न च किंचिदुवाचैनं स मुनिः पृच्छतोऽपि सन्
१.४५.३१ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्
मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ
१.४५.३२न बुबोध हि तं राजा मौनव्रतधरं मुनिम्
स तं मन्युसमाविष्टो धर्षयामास ते पिता
१.४५.३३मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम
१.४५.३४न चोवाच स मेधावी तमथो साध्वसाधु वा
तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन्