१.४६.१मन्त्रिण ऊचुः
१.४६.२ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम्
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ
१.४६.३ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः
१.४६.४ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा
१.४६.५मृतं सर्पं समासक्तं पित्रा ते जनमेजय
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम्
१.४६.६तपस्विनमतीवाथ तं मुनिप्रवरं नृप
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते
१.४६.७तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा
शुभाचारं शुभकथं सुस्थिरं तमलोलुपम्
१.४६.८अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव
१.४६.९शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः
१.४६.१०स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह
पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव
१.४६.११अनागसि गुरौ यो मे मृतं सर्पमवासृजत्
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति
सप्तरात्रादितः पापं पश्य मे तपसो बलम्
१.४६.१२इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत्
१.४६.१३स चापि मुनिशार्दूलः प्रेषयामास ते पितुः
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते
तक्षकस्त्वां महाराज तेजसा सादयिष्यति
१.४६.१४श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्
१.४६.१५ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत
१.४६.१६तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन्
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति
१.४६.१७काश्यप उवाच
१.४६.१८यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज
तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै
१.४६.१९गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति
१.४६.२०तक्षक उवाच
१.४६.२१किमर्थं तं मया दष्टं संजीवयितुमिच्छसि
ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम्
१.४६.२२मन्त्रिण ऊचुः
१.४६.२३धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा
१.४६.२४यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ
१.४६.२५स एवमुक्तो नागेन काश्यपो द्विपदां वरः
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्
१.४६.२६तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव
१.४६.२७प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः
१.४६.२८एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम्
१.४६.२९श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम्
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम्
१.४६.३०जनमेजय उवाच
१.४६.३१एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा
१.४६.३२केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम्
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम्
१.४६.३३मन्त्रिण ऊचुः
१.४६.३४शृणु राजन्यथास्माकं येनैतत्कथितं पुरा
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि
१.४६.३५तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम्
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ
१.४६.३६स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा
द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः
१.४६.३७तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम्
यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च
१.४६.३८एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम्
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम्
१.४६.३९सूत उवाच
१.४६.४०मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम्
१.४६.४१निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः
उवाच च महीपालो दुःखशोकसमन्वितः
१.४६.४२श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति
निश्चितेयं मम मतिर्या वै तां मे निबोधत
१.४६.४३अनन्तरमहं मन्ये तक्षकाय दुरात्मने
प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता
१.४६.४४ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम्
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम
१.४६.४५परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च
१.४६.४६स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्
संजिजीवयिषुं प्राप्तं राजानमपराजितम्
१.४६.४७महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति
१.४६.४८उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम्
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः