१. आदिपर्व
१.४७.१सूत उवाच

१.४७.२एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा

१.४७.३पुरोहितमथाहूय ऋत्विजं वसुधाधिपः
अब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः

१.४७.४यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्
प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे

१.४७.५अपि तत्कर्म विदितं भवतां येन पन्नगम्
तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम्

१.४७.६यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना
तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम्

१.४७.७ऋत्विज ऊचुः

१.४७.८अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्
सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप

१.४७.९आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः

१.४७.१०सूत उवाच

१.४७.११एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम्
हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम

१.४७.१२ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे

१.४७.१३ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम
देशं तं मापयामासुर्यज्ञायतनकारणात्
यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः

१.४७.१४ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम्
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम्

१.४७.१५निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा

१.४७.१६इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा

१.४७.१७यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्
स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः

१.४७.१८इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः

१.४७.१९एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत्
क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति

१.४७.२०ततः कर्म प्रववृते सर्पसत्रे विधानतः
पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः

१.४७.२१परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्

१.४७.२२कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा

१.४७.२३ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने
विवेष्टमानाः कृपणा आह्वयन्तः परस्परम्

१.४७.२४विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे

१.४७.२५श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा
रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ

१.४७.२६एवं शतसहस्राणि प्रयुतान्यर्बुदानि च
अवशानि विनष्टानि पन्नगानां द्विजोत्तम

१.४७.२७इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे
मत्ता इव च मातङ्गा महाकाया महाबलाः

१.४७.२८उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः
घोराश्च परिघप्रख्या दन्दशूका महाबलाः
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः