१.४८.१शौनक उवाच
१.४८.२सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः
१.४८.३के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे
विषादजननेऽत्यर्थं पन्नगानां महाभये
१.४८.४सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति
सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज
१.४८.५सूत उवाच
१.४८.६हन्त ते कथयिष्यामि नामानीह मनीषिणाम्
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा
१.४८.७तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः
च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः
१.४८.८उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः
ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः
१.४८.९सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्
उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः
१.४८.१०असितो देवलश्चैव नारदः पर्वतस्तथा
आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा
१.४८.११वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान्
कहोडो देवशर्मा च मौद्गल्यः शमसौभरः
१.४८.१२एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः
सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह
१.४८.१३जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः
१.४८.१४वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा
१.४८.१५पततां चैव नागानां धिष्ठितानां तथाम्बरे
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्
१.४८.१६तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम्
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्
१.४८.१७ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्
१.४८.१८तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन
१.४८.१९प्रसादितो मया पूर्वं तवार्थाय पितामहः
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः
१.४८.२०एवमाश्वासितस्तेन ततः स भुजगोत्तमः
उवास भवने तत्र शक्रस्य मुदितः सुखी
१.४८.२१अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः
अल्पशेषपरीवारो वासुकिः पर्यतप्यत
१.४८.२२कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम्
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्
१.४८.२३दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च
सीदामीव च संमोहाद्घूर्णतीव च मे मनः
१.४८.२४दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ
१.४८.२५पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया
व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम्
१.४८.२६अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः
जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान्
१.४८.२७आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः
१.४८.२८तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम्
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्