१.४९.१सूत उवाच
१.४९.२तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा
वासुकेर्नागराजस्य वचनादिदमब्रवीत्
१.४९.३अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः
कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्
१.४९.४आस्तीक उवाच
१.४९.५किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा
१.४९.६सूत उवाच
१.४९.७तत आचष्ट सा तस्मै बान्धवानां हितैषिणी
भगिनी नागराजस्य जरत्कारुरविक्लवा
१.४९.८भुजगानामशेषाणां माता कद्रूरिति श्रुतिः
तया शप्ता रुषितया सुता यस्मान्निबोध तत्
१.४९.९उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम
विनतानिमित्तं पणिते दासभावाय पुत्रकाः
१.४९.१०जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ
१.४९.११तां च शप्तवतीमेवं साक्षाल्लोकपितामहः
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च
१.४९.१२वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा
अमृते मथिते तात देवाञ्शरणमीयिवान्
१.४९.१३सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्
भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन्
१.४९.१४ते तं प्रसादयामासुर्देवाः सर्वे पितामहम्
राज्ञा वासुकिना सार्धं स शापो न भवेदिति
१.४९.१५वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्
अभिशापः स मात्रास्य भगवन्न भवेदिति
१.४९.१६ब्रह्मोवाच
१.४९.१७जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति
तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति
१.४९.१८जरत्कारुरुवाच
१.४९.१९एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः
प्रादान्माममरप्रख्य तव पित्रे महात्मने
प्रागेवानागते काले तत्र त्वं मय्यजायथाः
१.४९.२०अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि
भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात्
१.४९.२१अमोघं नः कृतं तत्स्याद्यदहं तव धीमते
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे
१.४९.२२सूत उवाच
१.४९.२३एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव
१.४९.२४अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते
१.४९.२५भव स्वस्थमना नाग न हि ते विद्यते भयम्
प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा
१.४९.२६तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल
यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम
१.४९.२७स संभावय नागेन्द्र मयि सर्वं महामते
न ते मयि मनो जातु मिथ्या भवितुमर्हति
१.४९.२८वासुकिरुवाच
१.४९.२९आस्तीक परिघूर्णामि हृदयं मे विदीर्यते
दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः
१.४९.३०आस्तीक उवाच
१.४९.३१न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम
दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्
१.४९.३२ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्
नाशयिष्यामि मात्र त्वं भयं कार्षीः कथंचन
१.४९.३३सूत उवाच
१.४९.३४ततः स वासुकेर्घोरमपनीय मनोज्वरम्
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्
१.४९.३५जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः
१.४९.३६स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः
१.४९.३७स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः
अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः