१. आदिपर्व
१.५०.१आस्तीक उवाच

१.५०.२सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.३शक्रस्य यज्ञः शतसंख्य उक्त;स्तथापरस्तुल्यसंख्यः शतं वै
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.४यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.५गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.६नृगस्य यज्ञस्त्वजमीढस्य चासी;द्यथा यज्ञो दाशरथेश्च राज्ञः
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.७यज्ञः श्रुतो नो दिवि देवसूनो;र्युधिष्ठिरस्याजमीढस्य राज्ञः
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.८कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र
तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः

१.५०.९इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा
नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथंचित्

१.५०.१०ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे
एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः

१.५०.११विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा
प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः

१.५०.१२नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम्
धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा

१.५०.१३शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्
मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे

१.५०.१४खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः
आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम्

१.५०.१५वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः
प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति

१.५०.१६यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः
श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम्

१.५०.१७दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च
और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा

१.५०.१८सूत उवाच

१.५०.१९एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः
तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ