१. आदिपर्व
१.५१.१जनमेजय उवाच

१.५१.२बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे
इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः

१.५१.३सदस्या ऊचुः

१.५१.४बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत्
सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम्

१.५१.५सूत उवाच

१.५१.६व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच
होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत्

१.५१.७जनमेजय उवाच

१.५१.८यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम्
तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः

१.५१.९ऋत्विज ऊचुः

१.५१.१०यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः

१.५१.११सूत उवाच

१.५१.१२यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात्
स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव

१.५१.१३पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन्
वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति

१.५१.१४एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले
होता च यत्तः स जुहाव मन्त्रै;रथो इन्द्रः स्वयमेवाजगाम

१.५१.१५विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः
बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च

१.५१.१६तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत्
ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्

१.५१.१७इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः
तमिन्द्रेणैव सहितं पातयध्वं विभावसौ

१.५१.१८ऋत्विज ऊचुः

१.५१.१९अयमायाति वै तूर्णं तक्षकस्ते वशं नृप
श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात्

१.५१.२०नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः

१.५१.२१वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि

१.५१.२२जनमेजय उवाच

१.५१.२३बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम्
वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम्

१.५१.२४सूत उवाच

१.५१.२५पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्

१.५१.२६वरं ददासि चेन्मह्यं वृणोमि जनमेजय
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः

१.५१.२७एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा
नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत्

१.५१.२८सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम

१.५१.२९आस्तीक उवाच

१.५१.३०सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः

१.५१.३१सूत उवाच

१.५१.३२आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा
पुनः पुनरुवाचेदमास्तीकं वदतां वरम्

१.५१.३३अन्यं वरय भद्रं ते वरं द्विजवरोत्तम
अयाचत न चाप्यन्यं वरं स भृगुनन्दन

१.५१.३४ततो वेदविदस्तत्र सदस्याः सर्व एव तम्
राजानमूचुः सहिता लभतां ब्राह्मणो वरम्