१. आदिपर्व
१.५९.१वैशंपायन उवाच

१.५९.२अथ नारायणेनेन्द्रश्चकार सह संविदम्
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः

१.५९.३आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह

१.५९.४तेऽमरारिविनाशाय सर्वलोकहिताय च
अवतेरुः क्रमेणेमां महीं स्वर्गाद्दिवौकसः

१.५९.५ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः

१.५९.६दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः

१.५९.७दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम

१.५९.८जनमेजय उवाच

१.५९.९देवदानवसंघानां गन्धर्वाप्सरसां तथा
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्

१.५९.१०श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः
प्राणिनां चैव सर्वेषां सर्वशः सर्वविद्ध्यसि

१.५९.११वैशंपायन उवाच

१.५९.१२हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्

१.५९.१३ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः

१.५९.१४मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश

१.५९.१५अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः
क्रोधा प्रावा अरिष्टा च विनता कपिला तथा

१.५९.१६कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्

१.५९.१७अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत

१.५९.१८धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च
भगो विवस्वान्पूषा च सविता दशमस्तथा

१.५९.१९एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते
जघन्यजः स सर्वेषामादित्यानां गुणाधिकः

१.५९.२०एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः
नाम्ना ख्यातास्तु तस्येमे पुत्राः पञ्च महात्मनः

१.५९.२१प्रह्रादः पूर्वजस्तेषां संह्रादस्तदनन्तरम्
अनुह्रादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ

१.५९.२२प्रह्रादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत
विरोचनश्च कुम्भश्च निकुम्भश्चेति विश्रुताः

१.५९.२३विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः

१.५९.२४चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः

१.५९.२५शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः
असिलोमा च केशी च दुर्जयश्चैव दानवः

१.५९.२६अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्
तथा गगनमूर्धा च वेगवान्केतुमांश्च यः

१.५९.२७स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महासुरः

१.५९.२८इसृपा एकचक्रश्च विरूपाक्षो हराहरौ
निचन्द्रश्च निकुम्भश्च कुपथः कापथस्तथा

१.५९.२९शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा
इति ख्याता दनोर्वंशे दानवाः परिकीर्तिताः
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ

१.५९.३०इमे च वंशे प्रथिताः सत्त्ववन्तो महाबलाः
दनुपुत्रा महाराज दश दानवपुङ्गवाः

१.५९.३१एकाक्षो मृतपा वीरः प्रलम्बनरकावपि
वातापिः शत्रुतपनः शठश्चैव महासुरः

१.५९.३२गविष्ठश्च दनायुश्च दीर्घजिह्वश्च दानवः
असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत

१.५९.३३सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्
सुचन्द्रं चन्द्रहन्तारं तथा चन्द्रविमर्दनम्

१.५९.३४क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्
गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः

१.५९.३५अनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः

१.५९.३६कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः
भुवि ख्याता महावीर्या दानवेषु परंतपाः

१.५९.३७विनाशनश्च क्रोधश्च हन्ता क्रोधस्य चापरः
क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः

१.५९.३८असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः

१.५९.३९त्वष्टावरस्तथात्रिश्च द्वावन्यौ मन्त्रकर्मिणौ
तेजसा सूर्यसंकाशा ब्रह्मलोकप्रभावनाः

१.५९.४०इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्
असुराणां सुराणां च पुराणे संश्रुतो मया

१.५९.४१एतेषां यदपत्यं तु न शक्यं तदशेषतः
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्

१.५९.४२तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ
आरुणिर्वारुणिश्चैव वैनतेया इति स्मृताः

१.५९.४३शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः
कूर्मश्च कुलिकश्चैव काद्रवेया महाबलाः

१.५९.४४भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः

१.५९.४५पत्रवानर्कपर्णश्च प्रयुतश्चैव विश्रुतः
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी

१.५९.४६तथा शालिशिरा राजन्प्रद्युम्नश्च चतुर्दशः
कलिः पञ्चदशश्चैव नारदश्चैव षोडशः
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः

१.५९.४७अतस्तु भूतान्यन्यानि कीर्तयिष्यामि भारत
अनवद्यामनुवशामनूनामरुणां प्रियाम्
अनूपां सुभगां भासीमिति प्रावा व्यजायत

१.५९.४८सिद्धः पूर्णश्च बर्ही च पूर्णाशश्च महायशाः
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः

१.५९.४९विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा
इत्येते देवगन्धर्वाः प्रावेयाः परिकीर्तिताः

१.५९.५०इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्
प्रावासूत महाभागा देवी देवर्षितः पुरा

१.५९.५१अलम्बुसा मिश्रकेषी विद्युत्पर्णा तुलानघा
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा

१.५९.५२असिता च सुबाहुश्च सुव्रता सुभुजा तथा
सुप्रिया चातिबाहुश्च विख्यातौ च हहाहुहू
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः

१.५९.५३अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्

१.५९.५४इति ते सर्वभूतानां संभवः कथितो मया
यथावत्परिसंख्यातो गन्धर्वाप्सरसां तथा

१.५९.५५भुजगानां सुपर्णानां रुद्राणां मरुतां तथा
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्

१.५९.५६आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता

१.५९.५७इमं तु वंशं नियमेन यः पठे;न्महात्मनां ब्राह्मणदेवसंनिधौ
अपत्यलाभं लभते स पुष्कलं; श्रियं यशः प्रेत्य च शोभनां गतिम्