१.६०.१वैशंपायन उवाच
१.६०.२ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
एकादश सुताः स्थाणोः ख्याताः परममानसाः
१.६०.३मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः
अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः
१.६०.४दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः
१.६०.५मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः
१.६०.६त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः
१.६०.७अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः
१.६०.८राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा
पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा
१.६०.९क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः
१.६०.१०दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः
१.६०.११वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः
१.६०.१२ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः
१.६०.१३ददौ स दश धर्माय सप्तविंशतिमिन्दवे
दिव्येन विधिना राजन्कश्यपाय त्रयोदश
१.६०.१४नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा
१.६०.१५बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा
१.६०.१६सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः
१.६०.१७पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्
१.६०.१८धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः
१.६०.१९धूम्रायाश्च धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा
चन्द्रमास्तु मनस्विन्याः श्वसायाः श्वसनस्तथा
१.६०.२०रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ
१.६०.२१धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः
१.६०.२२सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा
१.६०.२३अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः
१.६०.२४तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः
१.६०.२५अनिलस्य शिवा भार्या तस्याः पुत्रः पुरोजवः
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु
१.६०.२६प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
१.६०.२७बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह
१.६०.२८विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः
१.६०.२९भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
यो दिव्यानि विमानानि देवतानां चकार ह
१.६०.३०मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्
१.६०.३१स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः
१.६०.३२त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः
शमः कामश्च हर्षश्च तेजसा लोकधारिणः
१.६०.३३कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः
१.६०.३४मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः
१.६०.३५त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ
१.६०.३६द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः
१.६०.३७त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान्
१.६०.३८रुद्राणामपरः पक्षः साध्यानां मरुतां तथा
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च
१.६०.३९वैनतेयस्तु गरुडो बलवानरुणस्तथा
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते
१.६०.४०अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते
१.६०.४१ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः
भृगोः पुत्रः कविर्विद्वाञ्शुक्रः कविसुतो ग्रहः
१.६०.४२त्रैलोक्यप्राणयात्रार्थे वर्षावर्षे भयाभये
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति
१.६०.४३योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः
१.६०.४४तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्
१.६०.४५च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम्
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत
१.६०.४६आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः
महातपा महातेजा बाल एव गुणैर्युतः
१.६०.४७ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः
१.६०.४८रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः
सर्वशस्त्रास्त्रकुशलः क्षत्रियान्तकरो वशी
१.६०.४९और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्
तेषां पुत्रसहस्राणि बभूवुर्भृगुविस्तरः
१.६०.५०द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्
लोके धाता विधाता च यौ स्थितौ मनुना सह
१.६०.५१तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः
१.६०.५२वरुणस्य भार्या ज्येष्ठा तु शुक्राद्देवी व्यजायत
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्
१.६०.५३प्रजानामन्नकामानामन्योन्यपरिभक्षणात्
अधर्मस्तत्र संजातः सर्वभूतविनाशनः
१.६०.५४तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा
१.६०.५५काकीं श्येनीं च भासीं च धृतराष्ट्रीं तथा शुकीम्
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः
१.६०.५६उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत
भासी भासानजनयद्गृध्रांश्चैव जनाधिप
१.६०.५७धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः
चक्रवाकांश्च भद्रं ते प्रजज्ञे सा तु भामिनी
१.६०.५८शुकी विजज्ञे धर्मज्ञ शुकानेव मनस्विनी
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता
१.६०.५९नव क्रोधवशा नारीः प्रजज्ञेऽप्यात्मसंभवाः
मृगीं च मृगमन्दां च हरिं भद्रमनामपि
१.६०.६०मातङ्गीमथ शार्दूलीं श्वेतां सुरभिमेव च
सर्वलक्षणसंपन्नां सुरसां च यशस्विनीम्
१.६०.६१अपत्यं तु मृगाः सर्वे मृग्या नरवरात्मज
ऋक्षाश्च मृगमन्दायाः सृमराश्चमरा अपि
१.६०.६२ततस्त्वैरावतं नागं जज्ञे भद्रमना सुतम्
ऐरावतः सुतस्तस्या देवनागो महागजः
१.६०.६३हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते
१.६०.६४प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्रांश्च भारत
द्वीपिनश्च महाभाग सर्वानेव न संशयः
१.६०.६५मातङ्ग्यास्त्वथ मातङ्गा अपत्यानि नराधिप
दिशागजं तु श्वेताख्यं श्वेताजनयदाशुगम्
१.६०.६६तथा दुहितरौ राजन्सुरभिर्वै व्यजायत
रोहिणीं चैव भद्रं ते गन्धर्वीं च यशस्विनीम्
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः
१.६०.६७सुरसाजनयन्नागान्राजन्कद्रूश्च पन्नगान्
सप्त पिण्डफलान्वृक्षाननलापि व्यजायत
अनलायाः शुकी पुत्री कद्र्वास्तु सुरसा सुता
१.६०.६८अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ
संपातिं जनयामास तथैव च जटायुषम्
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ
१.६०.६९इत्येष सर्वभूतानां महतां मनुजाधिप
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर
१.६०.७०यं श्रुत्वा पुरुषः सम्यक्पूतो भवति पाप्मनः
सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति