१.६७.१दुःषन्त उवाच
१.६७.२सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते
१.६७.३सुवर्णमाला वासांसि कुण्डले परिहाटके
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने
१.६७.४आहरामि तवाद्याहं निष्कादीन्यजिनानि च
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने
१.६७.५गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते
१.६७.६शकुन्तलोवाच
१.६७.७फलाहारो गतो राजन्पिता मे इत आश्रमात्
तं मुहूर्तं प्रतीक्षस्व स मां तुभ्यं प्रदास्यति
१.६७.८दुःषन्त उवाच
१.६७.९इच्छामि त्वां वरारोहे भजमानामनिन्दिते
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम
१.६७.१०आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः
१.६७.११अष्टावेव समासेन विवाहा धर्मतः स्मृताः
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः
१.६७.१२गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः
तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत्
१.६७.१३प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते
१.६७.१४राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह
१.६७.१५पैशाचश्चासुरश्चैव न कर्तव्यौ कथंचन
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता
१.६७.१६गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः
१.६७.१७सा त्वं मम सकामस्य सकामा वरवर्णिनि
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि
१.६७.१८शकुन्तलोवाच
१.६७.१९यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो
१.६७.२०सत्यं मे प्रतिजानीहि यत्त्वां वक्ष्याम्यहं रहः
मम जायेत यः पुत्रः स भवेत्त्वदनन्तरम्
१.६७.२१युवराजो महाराज सत्यमेतद्ब्रवीहि मे
यद्येतदेवं दुःषन्त अस्तु मे संगमस्त्वया
१.६७.२२वैशंपायन उवाच
१.६७.२३एवमस्त्विति तां राजा प्रत्युवाचाविचारयन्
अपि च त्वां नयिष्यामि नगरं स्वं शुचिस्मिते
यथा त्वमर्हा सुश्रोणि सत्यमेतद्ब्रवीमि ते
१.६७.२४एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्
जग्राह विधिवत्पाणावुवास च तया सह
१.६७.२५विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्
तया त्वामानयिष्यामि निवासं स्वं शुचिस्मिते
१.६७.२६इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः
१.६७.२७भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति
एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम्
१.६७.२८मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्
शकुन्तला च पितरं ह्रिया नोपजगाम तम्
१.६७.२९विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः
उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा
१.६७.३०त्वयाद्य राजान्वयया मामनादृत्य यत्कृतः
पुंसा सह समायोगो न स धर्मोपघातकः
१.६७.३१क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः
१.६७.३२धर्मात्मा च महात्मा च दुःषन्तः पुरुषोत्तमः
अभ्यगच्छः पतिं यं त्वं भजमानं शकुन्तले
१.६७.३३महात्मा जनिता लोके पुत्रस्तव महाबलः
य इमां सागरापाङ्गां कृत्स्नां भोक्ष्यति मेदिनीम्
१.६७.३४परं चाभिप्रयातस्य चक्रं तस्य महात्मनः
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः
१.६७.३५ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्
विनिधाय ततो भारं संनिधाय फलानि च
१.६७.३६मया पतिर्वृतो योऽसौ दुःषन्तः पुरुषोत्तमः
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि
१.६७.३७कण्व उवाच
१.६७.३८प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम्
१.६७.३९वैशंपायन उवाच
१.६७.४०ततो धर्मिष्ठतां वव्रे राज्याच्चास्खलनं तथा
शकुन्तला पौरवाणां दुःषन्तहितकाम्यया