१. आदिपर्व
१.७४.१शुक्र उवाच

१.७४.२यः परेषां नरो नित्यमतिवादांस्तितिक्षति
देवयानि विजानीहि तेन सर्वमिदं जितम्

१.७४.३यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते

१.७४.४यः समुत्पतितं क्रोधमक्रोधेन निरस्यति
देवयानि विजानीहि तेन सर्वमिदं जितम्

१.७४.५यः समुत्पतितं क्रोधं क्षमयेह निरस्यति
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते

१.७४.६यः संधारयते मन्युं योऽतिवादांस्तितिक्षति
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्

१.७४.७यो यजेदपरिश्रान्तो मासि मासि शतं समाः
न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः

१.७४.८यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः
न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम्

१.७४.९देवयान्युवाच

१.७४.१०वेदाहं तात बालापि धर्माणां यदिहान्तरम्
अक्रोधे चातिवादे च वेद चापि बलाबलम्

१.७४.११शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता
तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते

१.७४.१२पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च
न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु

१.७४.१३ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते

१.७४.१४वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते