१.७६.१वैशंपायन उवाच
१.७६.२अथ दीर्घस्य कालस्य देवयानी नृपोत्तम
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी
१.७६.३तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा
तमेव देशं संप्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्
१.७६.४क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च
१.७६.५पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः
१.७६.६ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः
१.७६.७उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः
१.७६.८ययातिरुवाच
१.७६.९द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते
गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम्
१.७६.१०देवयान्युवाच
१.७६.११आख्यास्याम्यहमादत्स्व वचनं मे नराधिप
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्
१.७६.१२इयं च मे सखी दासी यत्राहं तत्र गामिनी
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः
१.७६.१३ययातिरुवाच
१.७६.१४कथं नु ते सखी दासी कन्येयं वरवर्णिनी
असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे
१.७६.१५देवयान्युवाच
१.७६.१६सर्व एव नरव्याघ्र विधानमनुवर्तते
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः
१.७६.१७राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च
किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे
१.७६.१८ययातिरुवाच
१.७६.१९ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः
१.७६.२०देवयान्युवाच
१.७६.२१केनास्यर्थेन नृपते इमं देशमुपागतः
जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया
१.७६.२२ययातिरुवाच
१.७६.२३मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः
बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि
१.७६.२४देवयान्युवाच
१.७६.२५द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव
१.७६.२६ययातिरुवाच
१.७६.२७विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि
अविवाह्या हि राजानो देवयानि पितुस्तव
१.७६.२८देवयान्युवाच
१.७६.२९संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम्
ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम्
१.७६.३०ययातिरुवाच
१.७६.३१एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः
१.७६.३२देवयान्युवाच
१.७६.३३पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः
१.७६.३४कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया
१.७६.३५ययातिरुवाच
१.७६.३६क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्रः पुरुषेण विजानता
१.७६.३७देवयान्युवाच
१.७६.३८कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ
१.७६.३९ययातिरुवाच
१.७६.४०एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः
१.७६.४१दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्
१.७६.४२देवयान्युवाच
१.७६.४३दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः
१.७६.४४वैशंपायन उवाच
१.७६.४५त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः
श्रुत्वैव च स राजानं दर्शयामास भार्गवः
१.७६.४६दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः
१.७६.४७देवयान्युवाच
१.७६.४८राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत्
नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे
१.७६.४९शुक्र उवाच
१.७६.५०वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया
गृहाणेमां मया दत्तां महिषीं नहुषात्मज
१.७६.५१ययातिरुवाच
१.७६.५२अधर्मो न स्पृशेदेवं महान्मामिह भार्गव
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्
१.७६.५३शुक्र उवाच
१.७६.५४अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम्
अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते
१.७६.५५वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्
अनया सह संप्रीतिमतुलां समवाप्स्यसि
१.७६.५६इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः
१.७६.५७वैशंपायन उवाच
१.७६.५८एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्
जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना