१.७७.१वैशंपायन उवाच
१.७७.२ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्
१.७७.३देवयान्याश्चानुमते तां सुतां वृषपर्वणः
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्
१.७७.४वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम्
वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम्
१.७७.५देवयान्या तु सहितः स नृपो नहुषात्मजः
विजहार बहूनब्दान्देववन्मुदितो भृशम्
१.७७.६ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना
लेभे गर्भं प्रथमतः कुमारं च व्यजायत
१.७७.७गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्
१.७७.८ऋतुकालश्च संप्राप्तो न च मेऽस्ति पतिर्वृतः
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत्
१.७७.९देवयानी प्रजातासौ वृथाहं प्राप्तयौवना
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्
१.७७.१०राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः
अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः
१.७७.११अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया
अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः
१.७७.१२तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्
१.७७.१३सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा
तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति
१.७७.१४रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप
१.७७.१५ययातिरुवाच
१.७७.१६वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम्
रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम्
१.७७.१७अब्रवीदुशना काव्यो देवयानीं यदावहम्
नेयमाह्वयितव्या ते शयने वार्षपर्वणी
१.७७.१८शर्मिष्ठोवाच
१.७७.१९न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले
प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि
१.७७.२०पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र
एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति
१.७७.२१ययातिरुवाच
१.७७.२२राजा प्रमाणं भूतानां स नश्येत मृषा वदन्
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे
१.७७.२३शर्मिष्ठोवाच
१.७७.२४समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः
समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः
१.७७.२५ययातिरुवाच
१.७७.२६दातव्यं याचमानेभ्य इति मे व्रतमाहितम्
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते
१.७७.२७शर्मिष्ठोवाच
१.७७.२८अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्
१.७७.२९त्रय एवाधना राजन्भार्या दासस्तथा सुतः
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्
१.७७.३०देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी
सा चाहं च त्वया राजन्भरणीये भजस्व माम्
१.७७.३१वैशंपायन उवाच
१.७७.३२एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान्
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत्
१.७७.३३समागम्य च शर्मिष्ठां यथाकाममवाप्य च
अन्योन्यमभिसंपूज्य जग्मतुस्तौ यथागतम्
१.७७.३४तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात्
१.७७.३५प्रजज्ञे च ततः काले राजन्राजीवलोचना
कुमारं देवगर्भाभं राजीवनिभलोचनम्